________________
तरङ्ग ८ / कथा १९५ / १९६
२२१
धनश्रिया योगिवचनं श्रुत्वा किमस्य कथितं सत्यं न वेति ध्यात्वा तीव्रतरविषमिश्रौ मोदकौ योगिने दत्तौ । स योग्यपि तौ मोदकावन्यां च भूयसीं भिक्षां लात्वा पुराद्बहिः सरस्तीरे गत्वा जन हस्तमुखादि प्रक्षाल्य यावद्भोक्तुमुपविशति, तावत्तावुभौ धनश्रीसुतौ तत्र क्रीडार्थमागतौ । अथ सुरूपौ सुकुमालौ तौ द्वौ विनीतौ बालौ विलोक्य प्राप्तप्रमोदेन तेन योगिना तौ मोदक तयोर्दत्तौ । तावपि तौ मोदकौ जग्ध्वा जलं च पीत्वा तत्रैवैकस्य तरोस्तले सुतौ विषाऽऽघ्रातौ च मृतौ। स योगी तु स्वं स्थानमगात् । धनश्रीरपि सुतौ मृतौ ज्ञात्वा सर्पादिप्रयोगेण तयोर्मरणं निश्चित्य कालेन गतशोका जाता । अथैकदा पुनरपि तं योगिनं तथैव भणन्तं भ्रमन्तं च निरीक्ष्य चकिता धनश्रीः किं तौ मोदकावनेन न जग्धाविति संशयमापन्ना तमाह, हे योगिन् ! हे नाथ! तौ मोदकौ भवता किं जग्धौ क्षिप्तौ वा कस्याऽपि दत्तौ ? इति पृष्टोऽसौ स्वयं कृतं तं वृत्तान्तं जगौ । साऽपि तन्निशम्य तद्वचसि जातनिर्णया सर्वं स्ववृत्तान्तमभिधाय योगिनं च विसृज्य धर्मपरा जाता । ॥ इति परेषां कृतमहितं स्वयं लभ्यते, इत्यर्थे धनश्रीकथा ॥ १९५ ॥
॥ १९६॥ लोकव्यवहारवैकल्ये चतुर्णां विप्राणां कथा ॥ अधीतशास्त्रा अपि लोकव्यवहारविकला निजाऽर्थभ्रंशभाजो भवेयुः, यतः -
शास्त्रं भणित्वाऽपि निजार्थमेके, विनाशयन्ति प्रसभं विवर्णाः । चतुष्टयं नष्टहविर्वृषान्न - शाकं यथा हास्यमियाय मैत्रम् ॥ १ 11 तथाहि - हरिस्थले ग्रामे अधीततर्क- ज्योतिष - लक्षण - वैद्यकशास्त्रा अपि लोकव्यवहारविवेकविकलाश्चत्वारो द्विजन्मतनवः सुहृदो वसन्ति स्म । अन्यदा ते चत्वारोऽपि स्वस्वविद्यागर्वभाजः परदेशं कौतुकाऽवलोकनाय स्वपुरतश्चलन्ति स्म । क्वाऽपि च पुरे भोजनार्थं तस्थिवांसः । अथ ते तार्किक नैमित्तिक-लाक्षणिक - वैद्याः क्रमेण घृताऽऽनयन-बलिवर्दचारणाऽन्नपाचन-शाकग्रहणरूपेषु स्वस्वकार्येषु प्रवृत्ताः, तेषु चैकस्तार्किको घृतमादायाध्वन्यागच्छन्निति दध्यौ, कं घृताधारं पात्रं वा पात्राधारं घृतम् ? इति वितर्क्यं तद्घृतपात्रमधोमुखमकरोत् तेन तद् घृतं च भुवि न्यपतत् । अथ द्वितीयो बलिवर्दचारको बलिवर्देषु हरिततृणाङ्कुरोत्करचरणवशादतिदूरं गतेषु ज्योतिःशास्त्रं पश्यति स्म, ममाऽमी वृषा अन्धे वा केकराक्षे वा चिपटाक्षे वा दिव्यचक्षुषि वा नक्षत्रे गताः ? चरे वा स्थिरे वा लग्ने गताः ? इति यावच्चिन्तयति तावत्ते वृषभा दवीयांसोऽभवन् ।
तृतीयो वैयाकरणोऽन्नपचनक्षणे 'खद्खद्' इति शब्दं कुर्वाणां खिच्चडिकां निभायेति दध्यौ, अहो ! असौ शब्दः कस्मिन् व्याकरणे केन सूत्रेण निष्पन्नः ? इति ध्यायत्येव तस्मि - न्नपि सा खिच्चडिका दग्धा । अथ चतुर्थोऽपि शाकग्रहणार्थं गच्छंश्चतुष्पथे रम्भाफलाऽऽम्र
१. AH - मत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org