________________
तरङ्ग ८/ कथा १९३/१९४
२१९ तत्राऽपि गोचर्यामटन्तं तं मुनिमुदीक्ष्य पूर्वभवाऽभ्यस्तरागवशात्सा शुनी कायच्छायेव तं नाऽमुञ्चत्। सर्वदा सर्वत्र च तां पृष्ठे लग्नां विलोक्य लोकैः स शुनीपतिरित्यभिधायि । तादृशैर्जनवचनैर्लज्जमानो मुनिः कथञ्चिदपि तस्या दृशं वञ्चयित्वा नष्टः, अथ तत्र तमपश्यन्ती साऽऽर्तध्यानेन विपद्य क्वाऽपि वानरीत्वेनोत्पन्ना। तत्राऽपि कदाचित्पथि विहरन्तं तं दृष्ट्वा शुनीवत्तस्य पृष्ठे लगा। तां च तथाऽवस्थां विलोक्य लोकैः स मुनिर्वानरीपतिरिति कथ्यते शुनीमिवेमामपि हित्वा क्वाऽपि गते मुनौ सा मृत्वा क्वाऽपि जलाशये हंसीत्वेनोदपद्यत। तत्र शीतपरीषहसहनार्थं जलाऽभ्यर्णे प्रतिमया स्थितं तं दृष्ट्वा भुजाभ्यां भामिनीव जलभृताभ्यां पक्षाभ्यामालिलिङ्ग। तस्मिन्मुनौ चाऽन्यत्र गते तमपश्यन्ती तन्मनाः सा हंसी मृत्वा व्यन्तरी जाता। अवधिना च तस्याऽऽत्मनश्च सर्वं वृत्तान्तं विज्ञाय तेन मम देवरेण मद्भणितं नाकारीति कुपिता सा तं हन्तुमुपस्थिताऽपि तत्तपसा हन्तुं न शक्नोति स्म। क्रमेण कलितकेवलः स मुनिर्लोकानां पुरस्तादात्मनस्तस्याश्च पूर्वसम्बन्धमभिधाय सिद्धः ॥ इति रागविषये कमलश्री-वसुभूतिकथा ॥१९३॥
॥१९४॥ द्वेष नन्दनाविक-युगन्धमुनिकथा ॥ सर्वथाऽनर्थकरणतत्परो हि द्वेष एव, यतः
यः कीर्तिं विनिहन्ति दन्तितिलको वीथीं वनानामिव । ज्ञानाऽभ्यासमपाकरोति मुदिरस्तोमं नभस्वानिव ॥ सौभाग्यं पिदधाति पङ्कजसुहृद्विम्बं तडित्वानिव ।
त्याज्य: पुण्यपरम्पराप्रलयकृद् द्वेषः स दोषैकभूः ॥१॥ किञ्चैकस्मिन्नपि जन्मनि विहितोऽपि पापीयान् द्वेषोऽयमनेकजन्मसु क्लेशहेतुः स्यात् यत:
अमारि जीवः खलु नाविकस्य, द्वेषं सृजन् द्वेषवशं गतेन ।
मुमुक्षुणा यद्बहुशस्तदेति, द्वेषोऽसुभाजः परजन्मक्लृप्तः ॥ २ ॥ तथाहि- तेजोलेश्याऽऽद्यनेकलब्धिधरो युगन्धरनामा महामुनिर्दीष्मसमये नावा गङ्गामुत्तीर्याऽन्यत्र गच्छन् भाटका) नन्देन नाविकेन रुद्धस्तमाह, हे भद्र! वयमकिञ्चनाः साधवः, तेन मम पार्श्वे किमपि धनं नास्तीत्यभिहितः सोऽभ्यधात्, धनं भवतु मा वा, तथाऽपि भाटकं विना त्वामहं न मोक्ष्ये, इत्युक्त्वा तेन नन्देन बाद कदर्थितो दग्धपादश्चोष्णतरैः पांसुपूरैः, सन्तप्तशरीरश्चोष्णरश्मिरश्मिभिः प्रकामं प्रकुपितः स मुनिस्तं तेजोलेश्यया भस्मसात्कृत्वाऽन्यत्र गतवान् ।
नन्दोऽपि द्वेषजनितेनाऽऽर्तध्यानेन विपद्य क्वाऽपि सभायां गृहगोधकोऽभूत् । तत्राऽपि तं मुनिमागतं वीक्ष्य पूर्वभवाभ्यस्तद्वेषवशेन स गृहगोधकस्तस्य मुनेर्वस्त्रपात्रभोजनोपरि रजः क्षिपति। मुनिना तथैव भस्मसात्कृतो मृतो गङ्गातीरे हंसः समभूत्। तत्राऽपि पक्षद्वयेनाऽऽनीतेन पानीयेन तस्य मुनेरुपसर्गं कुर्वन् स हंसो मुनिना तथैव दग्धोऽञ्जनगिरौ सिंहो जातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org