________________
२१८ श्री कथारत्नाकरे
श्री हेमविजयरचिते ततः पार्वती प्राह मम दौर्गत्यमूर्तिरिव कुरूपः पतिरासीत्, तेन पतिदौर्भाग्येन नितरामहमतिमत्यभवम्, ततः स्मर इव सौभाग्यवान् मम भर्ता भूयात्, प्रथमं हि रूपमेव सर्वत्र मान्यते, यतःपहिलमाणसदीसणुं, बीजुमाणसवउण ।त्रीजुमाणसबोलj, चउथुमाणसकउण ॥६॥ रूपें रामा राचीयें, रूपे रंजे भूप। रूपें रसीया रंजीयें, तेह थी रुडूं रूप ॥७॥
अथ तस्मिन्नैवाऽवसरे लाभपुरवासी श्रीकण्ठनामैकः प्रवया द्विजन्मा तथैव तत्राऽऽगतः, तैरपि तथैव सोऽभाणि, हे विप्र! एकेनैव वचसा त्वमपि स्वसमीहितं सुखं याचस्वेति। हिमालयगलनजन्यसुकृतेनैतासामेव पतिरहं भूयासमिति वदता तेन पाण्डित्यं धनित्वं सौभाग्यं च याचितमिति। ॥ इति पण्डितवचने श्रीकण्ठद्विजकथा ॥ १९२॥
॥१९३॥रागविषये कमलश्री-वसुभूतिकथा ॥ रागो हि यत्करोति, न तत्समर्थोऽपि रिपुवर्गः, यतः
नवि तं कुणइ अमित्तो, सुट्ट वि सुविराहिओ समत्थोवि ।
जं दोवि अणिग्गहिआ, करंति रागो अ दोसो अ ॥ १॥ किञ्चैकपक्षविहितोऽपि रागो द्वयोरनय, यत:भ्रातृवध्वाऽदितः पत्यु-र्धाता जन्मसु भूरिषु। रागोदयादरागोऽपि, रागस्तद्वैलवत्तरः ॥२॥
तथाहि-वसन्तपुरे पुरे शिवभूति-वसुभूतिनामानौ द्वौ भ्रातरौ। अन्यदा ज्येष्ठस्य भ्रातुर्जाया कमलश्री: स्मरसोदरं पतिसोदरं निरीक्ष्य रागात्सम्भोगार्थमयाचत। सम्बन्धेऽपि वधूनां न मनःशुद्धिः, यतःसुरूपं पितरं दृष्ट्वा, भ्रातरं देवरं तथा। योनिः क्लिद्यति नारीणा-मामपात्रमिवाऽम्भसा ॥३॥ उन्मत्ताः प्रेमसंरम्भा-दारभन्ते यदङ्गनाः। तत्र प्रत्यूहमाधातुं, ब्रह्माऽपि खलु कातरः ॥ ४॥
वसुभूतिरपि तस्या रागं बलीयस्तरं निरीक्ष्य ज्येष्ठभ्रातुर्जाया मातेति विचिन्त्य गृहान्निर्गत्य यतिरभूत्। यतः
अपसर सखे! दूरादस्मात्कटाक्षविषाऽनलात्। प्रकृतिविषमाद्योषित्सर्पाद्विलासलसत्फणात् । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै
श्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ५ ॥ इति वनितासङ्गमं विषमिव विषमं विचिन्त्य स महात्मा सर्वथामुक्तमानिनीसंस्तवो विजहार। कमलश्रीरपि तं प्रव्रजितं निशम्य रागोदयान्मृत्वा च क्वाऽपि ग्रामे शुनीत्वेनोत्पन्ना। १. रागोऽपितद्० - AHI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org