________________
तरङ्ग ८ / कथा १९१ / १९२
२१७
विडम्ब्यते, अहं भवांश्च द्वावपि निष्कलङ्कौ सुखमनुभवावः । इत्याऽऽकर्ण्य सकर्णः स दध्यौ, धिग्मामना - चारनरशिरोमणिं, यद्वशेनाऽयमदोषोऽपि मन्त्री क्लेशमापन्नः, इति ध्यायन् स तस्मिन्मन्त्रिणि तथैव राज्ञः पुरस्तात्तैरानीते तत्राऽऽगत्य राजानमूचे, हे तात! नाऽयं निग्रहमर्हति, किं त्वहमेव निग्रहोचित इत्यभिधाय सर्वं स्वकीयं तस्याश्च चरितं सोऽब्रवीत् । तत्सर्वं यथाजातं मनसि ध्यात्वा राजा राजाङ्गजो मन्त्री च सर्वेऽपि वैराग्येण तपस्यामादाय सिद्धाः । ॥ इति स्त्रीचरित्राऽवलोकनाद् वैराग्यमित्यर्थे चन्द्रचूडराजकुमारकथा ॥ १९१॥ ॥ १९२॥ पण्डितवचने श्रीकण्ठद्विजकथा ॥
एकमेव वचनं वदन्तो मेधाविनः सर्वं स्वसमीहितं साधयन्ति, यतः - मेधाविनामेकमपि प्रभूता- नर्थान् स्पृशेद्वाक्यमनाकुलानाम्
I
आसां तिसृणां रमणो भवेय-मेवं वदन् विप्र इहाऽस्ति वाच्यः ॥ १॥ तथाहि - दिल्लीदुर्गे सर्वथा दौःस्थ्यभाजो भृशं प्रवयसो निष्परिवाराः परगृहकर्मभिः कृतनिर्वाहव्यापारा नारायणी - वैष्णवी पार्वतीनाम्यस्तिस्रो विप्रयोषितो वसन्ति स्म। एकदा सर्वथा निराधारा एता दुःखाऽग्निदग्धदेहाः पुण्यबुद्ध्या हिमालये गलनार्थं स्वस्वगृहात्पृथक् पृथक् निर्गताः प्राप्ताश्च तत्र । तत्र प्रवेष्टुमुद्यतास्तास्तद्रक्षाऽधिकारिनरैर्बभाषिरे, हे मातरो ! हिमालयस्वामिनरेशनिर्देशं विना भवतीनामत्र प्रवेशं कर्तुं न दास्याम इति । अथैता राज्ञः समीपं गत्वा तदाऽऽज्ञापत्रमादाय तेषामार्पयन् । तदा हिमालयगलनजातपुण्येन का का युष्माकमीहा ? इति तैर्भणिते नारायणी बभाण, मम पतिः सर्वथा निरक्षरोऽभूत्, तेन पतिमौर्य्यदुःखेनाऽहं भृशमुद्विग्ग्रा, ततोऽनेन पुण्येन मम पण्डितः पतिर्भूयादिति, सर्वथा पण्डित एव लोकानां प्रियः, यतःपंडितसरसी गोठडी, मुज मन खरी सुहाय ।
चाली जई बोलावीयें, माणिक आपी जाय ॥ २ ॥ बलिहारी पंडिततणी, जस मुख अमीय झरंत । जास वचन श्रवणें सुणी, मन रति अतिह करंत ॥ ३ ॥
तथैव- वैष्णवी प्रोचे, मम पतिरतीवदुर्गतोऽभूत् तेन पन्नगेनेव पतिदौर्गत्येन जग्धाऽहमसुखभागभूवम् । ततो मम श्रीपतिः पतिरस्तु यतो धनवानेव बहुजनेषु मान्यः, यतःवंश विलास विनोद विधि, विद्या विनय विवेक ।
१. आलइजंइ
Jain Education International
-
वेष वडापण वातडी, धन विण भलुं न एक ॥ ४॥ भामिणि भोग भलप्पण, भलिभूमि भडवाय I भुजबल भोयण भावतु, जस घरि लच्छी - पसाय ॥ ५ ॥
AHT
For Private & Personal Use Only
www.jainelibrary.org