________________
२१६
श्री कथारत्नाकरे
श्री हेमविजयरचिते च सा स्वैरिणी तेन कुब्जेन सह सुरतं विधातुं प्रवृत्ता। अथ दैवाऽऽनुकूल्यतो वह्निना पच्यमानस्य तस्य सर्पस्य धूमेन ध्वस्तनेत्रतिमिरोऽसौ तयोर्दुश्चेष्टितं विलोक्य चुकोप। अथ तथैवाऽन्धवत्कपटेनोत्थाय बलवता तेन बाढं मुशलेन हतस्य तस्य कुब्जस्य शिरसः प्रहारेण वक्षसि निहतायास्तस्यास्तृतीयो वक्षोरुहो न्यपतत्। मर्मणि लग्नेन तेन प्रहारेण कुब्जोऽप्यकुब्जतां भेजे। एवं दैवेन शुभदृशा दृष्टास्ते त्रयोऽपि पटवो बभूवुः। ॥ इति भाग्ये अन्ध-कुब्जत्रिस्तनीराजपुत्रीकथा ॥ १९०॥
॥१९१॥ स्त्रीचरित्रावलोकनाद वैराग्यमित्यर्थे चन्द्रचूडराजकुमारकथा ॥ हाव-भाव-विलास-विभ्रमचेष्टाविशेषैरपि केवलं कमललोचनाः संसारबन्धनमेव, यतःस्मितेन हावेन च लज्जयाऽभितः, पराङ्मुखैरर्धकटाक्षवीक्षितैः।
वचोभिरीाकलहेन लीलया, समस्तपाशैः खलु बन्धनं स्त्रियः ॥ १॥ तेनैतासां चरित्रैर्महाशया विरक्ताः स्युः, यत:
दम्भात्सुरङ्गाऽ ऽगतमन्त्रिपत्नी-स्वरूपमुद्भाव्य विरक्तचित्तः ।।
जग्राह दीक्षां नृपतेस्तनूजो, न के विरक्ताः सुदृशां चरित्रैः ॥ २॥ तथाहि- चन्द्रपुरे पुरे चन्द्रसेनस्य राज्ञश्चन्द्रचूडः सुतः, सोऽन्यदोद्याने गतः, तत्र च जलक्रीडां कुर्वाणां सुवर्णाऽऽभरणयुक्तां सुवर्णवर्णां स्वच्छदुकूलकलितां ललितानामललितलोचनां मन्त्रिपत्नीं निरीक्ष्य स स्मराऽऽतुरो जज्ञे।
साऽपि श्रीनन्दनमिवाऽऽनन्ददायिनं तं राजनन्दनं विलोक्य कामपीडिता कृतजलक्रीडा वलितकन्धरं तं पश्यन्ती पुराऽभिमुखमचलत्। सोऽपि कुतश्चिजनादवगततद्गेहनामाऽऽदिस्वरूपः स्वगृहं गतः। तदैव तेन दूतीमुखेन तस्यै स्वमनोविलसिते ज्ञापिते सति सतीतरा साऽपि दूतीमुखेन तस्मै जगौ- हे सुभग! तव गृहेऽत्यन्तमागन्तुमना अस्मि, परं तथा समेष्यामि, यथा कोऽपि न मां न च भवन्तं निन्दयिष्यतीति, तेन भवता भवत्सौधस्याऽधोवर्तिनीं वापी यावत्सुरङ्गा देया, तदनन्तरमावयोर्मनोरथः फलेग्रहिर्भवितेत्यभिहितया दूत्या तदभिहिते स राजाऽङ्गजस्तथैवाऽकरोत्। अथ सा स्वैरिणी प्राणपतिना सह मुधा कलिं कृत्वा निशि तस्यां वाप्यामादौ पाषाणखण्डमेकं निक्षिप्य स्वयं च तया सुरङ्गया राजपुत्रौकसि गत्वा तेन सह भोगान् बुभुजे। प्रभाते च मन्त्रिपत्नी वाप्यां पतितेति तत्पितृभ्यां राज्ञोऽज्ञापि ।
हे स्वामिन् ! विनाऽपराधमनेन चण्डेन पापिना मन्त्रिणा हताऽस्मत्सुता वाप्यां पतितेति नीतिविदा कुपितेन राज्ञा प्रहितैः स्वपुरुषैः सर्वस्वहरणपुरस्सरं स मन्त्री बाढं विडम्ब्य यष्टिमुष्टि-पदप्रहारैर्हन्यमानो बद्धश्चतुष्पथे नीयमानश्च राजपुत्रपार्श्वे स्थितया गवाक्षगतया ददृशे, ऊचे च हे प्राणनाथ! पश्यैतन्मम कलाकौशल्यम् ! असौ मत्पतिः पार्थिवपत्तिभिर्बाढं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org