________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते अथ प्रभाते दग्धे तदोकसि दग्धां तां स्त्रियं रासभीं च विलोक्य खेदवांस्तत्परिजनः सुरूपां तुरगीं च दग्धे मत्वा तत्प्रेतक्रियां व्यधात् । गृहाऽऽगतः शङ्करोऽपि गृहोदन्तं निशम्य स्ववाग्निर्वाहपरो योगी भूत्वा ततो निर्ययौ । अथैकस्मिन् ग्रामे मिलितः स योगी तेन वणिजाऽभिहितो यथाजातं स्ववृत्तान्तमवक्, अतीतं पण्डिता न शोचन्ति, तेन मुञ्च योगिनो वेषं, विधवां मम भगिनीं चैकां तुरगीं तुभ्यं यच्छामीत्याऽऽग्रहेण स वणिक् सायं मुक्तयोगिवेषं तं स्वगृहं निनाय । शङ्करोऽपि तद्गृहे तां वाजिनीमुदीक्ष्य किं मदीयैषा स्यान्न वेति संशयं गतो यावच्चिन्तयति, तावद्वणिगपि मुहूर्ताऽवसरे वसनालङ्कारशालिनीं नीरङ्गीपिहितमुखीं सुरूपामादायोपस्थितः, साऽपि स्वच्छवस्त्रान्तस्तं निरीक्ष्य दध्यौ, मम पतिरेव मामादातुमागतोऽस्ति, अथ जल्पनेनाऽलमिति ध्यायन्ती सा तेन परिणीता । अथ तेन वणिजा दत्तां बहुधनयुतां तां तुरगीमादाय तया सह रात्रावेव चलितः स प्रातस्तां विलोक्य स्वपत्नीं च मत्वा विस्मितः पूर्ववृत्तान्तमप्राक्षीत् । साऽपि यथाजातं स्वचेष्टितमभिधाय पतिमभिदधे - हे स्वामिन्नथ मौनमेवोचितं, किञ्चाऽऽत्मग्रामे गमनं नोचितमिति मत्वा तौ दम्पती अन्यत्र गत्वा गृहवासं पालयतः स्म । ॥ इति धनलुब्धानां प्रेम मुधेत्यर्थे सुरूपानामद्विजपत्नीकथा ॥ १८२ ॥ ॥ १८३ ॥ नियमपालने कमलश्रेष्ठिकथा ॥ नियमनिर्वाहवतां निर्वाणशर्माणि सुलभानि, यतः -
२०६
नाणं नियमग्गहणं, नवकारो नयरुई य निट्ठा य । पंचनयभूसिआणं, न दुलहा सग्गई होई ॥ १ 11
अपि च
Jain Education International
अल्पीयानपि नियमः, सुखाय सम्यक्प्रपालितो भवति । घटकृट्टाल्याऽवलोकन - रूपः कमलाभिधस्येव Il २ ||
तथाहि - श्रीपुरे नगरे श्रीपति श्रेष्ठिनः सुन्दरीजातः कमलाभिधः सुतः, सम्यक्त्वमूलद्वादशव्रतवता पित्रा प्रतिबोधितोऽपि पुत्रो मक्षिकाणां चन्दनमिव धर्मं नैच्छत् । एकदा हितेन पित्रा तत्राऽऽगतानां शीलन्धराऽऽचार्याणामभ्यर्णे स नीतः, अस्मन्मुखमेवाऽवलोकनीयमित्यभिधाय धर्मोपदेशदानाऽनन्तरं त्वया किमप्यवगतमिति गुरुभिः पृष्टः स प्राह, अष्टोत्तरशतवारं जल्पतां भवतां कण्ठमणिरचलत् किञ्चौत्सुक्येन स बहु: चलितस्तदहं तु न ज्ञातवान्, इति गुरूणां हासं कुर्वन् पित्राऽयमयोग्य इत्युपेक्षितः । अन्यदा पुनरपि पित्रा तत्राऽऽगतगुणसागरगुरूणां समीपे स नीतः, श्रुतपूर्वोदन्तैर्गुरुभिरधस्तादेवा - ऽवलोकनीयमित्यभिधाय धर्मकथाप्रान्ते तथैवोदीरितः सोऽवोचत्, इतो विवरादष्टोत्तरं शतं कीटिकानां निर्गतमिति हास्यपरः सोऽन्यश्राद्धै र्हक्कितः। अन्यदा च तत्राऽऽगतज्ञानसागरसूरयः पूर्ववृत्तान्तमाकर्ण्य तत्प्रबोधाय तमाकारयामासुः । पुरस्तस्थुषि तस्मिन् धर्मं कथयद्भिर्गुरुभिः पृष्टः स हे कमल ! वेत्सि कामभूपस्य सैन्यं ? नेति तेनोक्ते तैरूचे । यतः -
१. तुला
उपदेशप्रासादे व्या. २६ ॥
For Private & Personal Use Only
www.jainelibrary.org