SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २०५ तरङ्ग ८/ कथा १८१/१८२ स्थित्वा वक्षःस्थलं स्पृशन् स वारणीयः, ततो भवत्याः पतिर्वर्षशतमितजीविता भवितेति देवीगिराहमिदमकार्षम् । एतदाकर्ण्य विशेषादेषा मयि भक्तिमतीति मन्यमानः प्रमुदितः सूत्रधारो द्वयोः स्कन्धयोस्तावारोप्य ननर्त। ॥ इति मूर्खचरित्रे सबलसूत्रधारकथा ॥ १८१॥ ॥ १८२॥ धनलुब्धानां प्रेम मुधेत्यर्थे सुरूपानाम-द्विजपत्नीकथा ॥ धनेन सर्वोऽपि वशमुपैति। यतः जिण दीट्ठइ मुनिमन चलइ, तरुणी पसारइ हत्थ । 'कनक एक वशीकारण, अवर सवि अकयत्थ ॥१॥ तेन धनलुब्धाः पुरातनमपि प्रेम त्यजन्ति। यतःविप्रप्रिया द्रविणलोभवशाद्विमुच्य, प्रेमैकपात्रमपि जीवितवल्लभं स्वम् । दग्ध्वा च धाम निरगाद्वणिजा सहाऽहो!, अस्थैर्यमम्बुजदृशां मनसां महीयः ॥२॥ तथाहि- केशवावासे ग्रामे शङ्करनामा द्विजः, सुरूपानाम्नी च तस्य पत्नी, एकदा निशि तौ दम्पती मिथो वार्तामिति कुरुतः स्म । विप्रो जगौ- हे प्रिये! त्वयि मृतायामहमन्यां पत्नी न परिणेष्यामि, हे प्रिय ! त्वयि च मृतेऽवश्यमेवाऽहमग्नौ प्रवेशं विधास्यामीति मिथः स्नेहेन शपथपूर्वं तयोर्वार्ता श्रुत्वा गृहद्वारे सुप्तः पुण्यावासवासी देवाऽभिधो वणिग् दध्यौ, नित्योत्सने स्थिता अपि स्त्रियो नाऽऽत्मीयाः, यतः शास्त्रं सुनिश्चितधिया परिचिन्तनीय-माराधितोऽपि नृपतिः परिशङ्कनीयः । अङ्कस्थितापि युवतिः परिरक्षणीया, शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ? ॥ ३॥ अयं च मूोऽस्याः प्रेम दृढ़तरं मन्यते, तेनैतत्परीक्षां करिष्यामीति मत्वा स गृहमगात्। अन्यदा शङ्करं ग्रामान्तरगतं मत्वा विच्छायमुखो भूत्वा स धान्यान्तः कनकरजतादि नाणकं निधाय तद्गृहमागतः। धान्यमाददाना सा मध्ये नाणकं विलोक्य किमिदमिति तं जगौ, तेनोक्तं मदोकसि धनस्य भूयस्त्वेन नाणकं धान्येष्वपि तिष्ठति, तेन पाश्चात्यनिशि धान्यमादायाऽत्राऽऽगच्छतो मम धान्यमध्ये नाणकमागतं, एतदाकाऽहो धनवानेष इति ध्यात्वा सा विच्छायवदननिदानमपृच्छत्। मत्पत्नी मृता तेन सचिन्तोऽस्मीति तेन भणिते सा स्माह यदि मामीहसे तदा त्वत्पत्नी भवामि, तव पति वन्नस्ति, तेन कथमेतत्करिष्यसीति तेन भणिते सा अवोचत् तथा करिष्ये यथा कोऽपि मद्विलसितं न ज्ञास्यति, तदा स जगौ- हे शुभे! तथा कुरु, यथाऽहं त्वां गृहस्वामिनी करिष्ये। अथेयमात्मनः स्थाने मृतामेकां स्त्रियं, तुरगीस्थाने च मृतामेकां रासभी गृहान्तर्निधाय गृहं दग्ध्वा निशि तेन समं [तुरग्यारूढा] ययौ। गृहं गतः स स्वप्रियां प्राह, हे प्रिये! स्वननान्दरैमिमामालिङ्ग पादयोश्च प्रणामं कुरु, एतदाकर्ण्य किमिदमसमञ्जसमसौ वक्तीति ध्यायन्ती सुरूपा तेनोचे, हे भगिनि! ममौकसि तिष्ठ, यथारुचि च सुखमनुभवेति भणिता सा विहितविधवावेषा तदोकसि तस्थौ। १. कंता - DS || २ ननन्दर - D | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy