________________
२०४ श्री कथारत्नाकरे
श्री हेमविजयरचिते चालितचामरायां तस्यां राजा प्राभृतं पुरो विमुच्य प्राणमत्। राज्ञीमुख्या अन्येऽपि तथैव व्यधुः अथ क्षणान्तरे सुरराजा व्रजतीति वादिनी सा पुनरुत्तस्थौ। हे राजन् ! दृष्टो देवेन्द्रः? इति तदुक्तं श्रुत्वा राजा दध्यौ, यदि न विलोकितः स्वर्लोकनाथ इति वक्ष्ये, तदेषा मम पितृदोषं ज्ञास्यतीति मत्वा स तामवोचत्, हे पुत्रि! तव प्रसादात्सुरेन्द्रो मया ददृशे, राज्ञीप्रमुखा अन्येऽप्येवमेव प्रोचुः अस्मिन्नवसरे पार्श्वस्थो नृपसेवको धरणो नाम राजानं जगौ, हे देव! मम पितुर्द्वयं चतुष्टयं वा भूयात्, परं मया सुरराजो नेक्षितः,एतदाकर्ण्य स्मितमुखो राजाऽपि जगाद, हे धरण! मयाऽपि शक्रो नेक्षितः, अन्येषु राज्ञीमुख्येष्वपि तथैव वदत्सु सा कामसेना राजानमवक्, हे स्वामिन्नवगतमसत्यचारुत्वं? यदि भवादृशा अपि मेधाविनो मदुक्तमसत्यतरमपि सत्यतरं विदन्ति, तदान्येषां स्वल्पमतीनां का वार्ता ? हे स्वामिन्नतोऽहमेवमसत्यं मिष्टमत्यभणम्। एषा मम प्रतिबोधदायिनीति मत्वा सत्कारपूर्वं तां विसृज्य राजा विशेषतोऽसत्याद्विरमति स्म। ॥ इत्यसत्यविरतौ मृगाङ्कभूपकथा ॥ १८०॥
॥१८१॥ मूर्खचरित्रे सबलसूत्रधारकथा ॥ अवगतापराधा अपि मूर्खास्तोषभाजो भवन्ति, यतःसाक्षाद् दृष्टाऽपराधोऽपि, तोषं याति निरक्षरः । रथकारो दधत्स्कन्धे, भार्यां जारं च हर्षभाक् ॥१॥
तथाहि- धनावासे ग्रामे धनवान् सबलो नाम सूत्रधारः, तस्य क्रमेण परिणीताः सप्त प्रियाः सर्प-शूल-विष-विसूचिकादिनोपद्रवेण मृताः, धनवता तेन वार्धकेऽप्यष्टमी परिणीता, अथ वृद्धत्वेन तेनाऽनीहिता सा स्वैरं परपुरुषैः समं रेमे। यतः
- अनभ्यासे विषं शास्त्र-मजीर्णे भोजनं विषम् ।।
विषं गोष्ठी दरिद्राणां, वृद्धस्य तरुणी विषम् ॥ २ ॥ अन्येद्युः स्वैरं रममाणां तां विलोक्य परिवार: सबलस्य तद्विलसितमूचे। यावत्स्वदृशा न पश्यामि तावदहं न प्रत्येमीति भणित्वा स मूों ग्रामान्तरगमनमिषेण गृहात्सायं निर्ययौ।
अथ पतिं गतं मत्वा सा स्वैरिणी सायमेवाऽभिमतमेकं युवानमाकार्य विहितवस्त्राऽऽभरणशृङ्गारा पर्यङ्के तेन सह तस्थौ। अथ पृष्ठद्वारेण गृहान्तरागत्य पर्याधः स्थितं पतिं दैवयोगाद् ज्ञात्वा पीनस्तनम लवक्षःस्थले पाणिं निदधन्तं तं सा प्रोवाच, 'हे सुभग! मा मां स्पृश' हे शठे ! किमर्थमहमाकारितः? किमर्थं च वारयसीति भणिता साऽवोचत्, हे सुभग! चण्डिकां देवीमनिशमहमाराधयामि, एकदा तु तुष्टां तां मम भर्तुरायुर्वर्षशतमितं विधेहीति प्रार्थयन्तीं मां साऽवादीत्, तव पतिरद्यतः सप्तमे दिने मरिष्यति, तेन कथमहं तस्याऽऽयुः प्रभूतं करोमीति वादिनी देवीमहमवोचं, हे मातर्यदि तुष्टाऽसि तदैनमेव ममाऽभिमतं यच्छ, तयोक्तं हे पुत्रि! यदीदमेव वाञ्छसि तदाऽन्येन यूना पुंसा सममेकत्र शयने त्वया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org