________________
तरङ्ग ८/ कथा १८०
२०३ प्रभाते सौधाऽन्तः श्रेष्ठिसुतामाकार्य कथं मांसं मिष्टमित्यप्राक्षीत् । हे स्वामिन्नेकदा स्वैरं रममाणाऽहमेकस्य द्वारे पतितस्य मांसमिश्रस्याऽस्थिखण्डस्योपरि कीटिका-काक-श्वान-शकुनिका-श्येनाऽऽदीन् भूरीन् जीवान् मिलितानद्राक्षम्। तदा च मया चिन्तितं प्रथमं धनिकेनाऽऽमिषमुपभुज्यैतदस्थिखण्डं बहिः क्षिप्तं? तल्लग्नस्याऽऽमिषलेशस्य कृते कीटिकादयोऽमी जीवा भ्रमन्ति, मिथः कलहायन्ते चेति मांसमेव मिष्टमित्यहमभणम्। सत्कृत्य विसृष्टायां तस्यां राजा तथैव पुरोहितपुत्रीमाहूय कथं मह्यं मिष्टमित्यपृच्छत् । हे स्वामिन्नेकदा सुरापानपराणां भवत्सेवकानां मिथो भूयान् कलिरभूत् । तदा चैकेन सुरामत्तेन जनेनाऽसिना कोऽपि महान् भवत्सेवको हतः । तद्वैरापनोदाय च तेन हन्त्रा हतस्य सुताय स्वसुतां दत्त्वा पुनः प्रीतिकृते गोष्ठीस्थाने सुरापानमेव सम्भूय व्यधायि, तथा च मया ध्यातं यद्वशेन मानुषमरणमासीत्, तदेव च सुरापानं यदि प्रीतिकृते विधीयते तदा मद्यमेव मिष्टमित्यहमवोचम्। अथ तस्यां गतायां तथैवाऽऽकार्य राजा कथं जारत्वं रम्यमिति मन्त्रिपुत्रीमपृच्छत्।
तयोक्तं हे तात! अत्रैव पुरे धनदत्तो युवा धनश्रियं श्रेष्ठिप्रियां सेवमानो भवत्पुरुषैतिः खराऽऽरोहणपुरस्सरं बहु विडम्ब्य धनं लात्वा च मुमुचे, स पुनरपि तां कामयन् मया ददृशे, तदा च मया ध्यातं, यदयमेव विडम्बितो दण्डितोऽपि च यदि जारत्वं नोज्झति तदा पारदारिकत्वमेव रम्यमित्यहमकथयम्। तस्यामपि गतायां राजा कथं मृषा वचनमिष्टमिति पृष्टा वेश्यासुता सप्तदिनमर्यादां कृत्वा गृहं गता। अथ राज्ञा पृष्टं सुतामुखादाकर्ण्य कामपताकया तन्मात्रा सप्तदिनं सा भूमिगृहे निदधे। सप्तमेऽहनि राज्ञा समाहूतायाः सुतायाः स्थाने तन्माता राजसभां गत्वा राजानं जगौ, हे देव! मत्सुता नित्यं शक्रपुरो नृत्यं कर्तुं याति, यदा च स शक्रस्तां विसृजति, तदा सा गृहमेति, तेन सप्त वासरा जाताः, साऽद्याऽपि गृहमागता नाऽस्तीति श्रुत्वा विस्मितो राजा यदा सा गृहं समेति तदा द्रुतमेवाऽत्र प्रेष्येत्यभिधाय तां व्यस्राक्षीत् । अथैकदा ततो निर्गता विशेषतो वसनाऽऽभरणभूषिता सा राजसभायां गता, राज्ञाऽपि सा बहुमानमूचे, हे पुत्रि! त्वमिन्द्रस्य विशेषतो मान्या तेन यथा सुरेन्द्रस्य दर्शनमस्माकं स्यात्तथा विधेहि ? तयोक्तं हे देव! देवेन्द्रं पृष्ट्वा निर्णयं वक्ष्ये।
अथ पुनरपि सप्तदिनानि गृहान्तः स्थित्वा सभामागत्य च राजानमवक्, हे देव! बाढाऽऽग्रहेण पितृपक्षशुद्धानां मम दर्शनं भवितेति वदता शक्रेण मद्वचो मानितमस्ति, तेनैकं चतुरं विमानोपमं रम्यं भूषितं गृहं कारय, तत्राऽऽगत्य सुरेन्द्रदर्शनं तव भवितेति भणित्वा सा गृहमगात्। अथ राजा राज्ञी मन्त्री पुरोहितश्चाऽमी चत्वारोऽपि सुरराजदर्शनोत्सुकास्तयोक्तवासरे तत्र गृहे प्राभृतपाणयः सावधानास्तस्थुः । अथ चामर-च्छत्रशोभितस्य नानामणिरम्यस्य सपादपीठस्य गृहमध्यमण्डितस्य सिंहासनस्य पार्श्वे शृङ्गारशालिनी सा तस्थौ। अथ हे दम्भोलिपाणे! हे सुरराज ! हे पुरन्दर ! मनोहरमिदमासनमलङ्क्रियतामलङ्क्रियतामिति वादिनी सा क्षणान्तरे समुत्तस्थौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org