________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
तथाहि - वणस्थले नगरे रत्नसेनस्य श्रेष्ठिनो रूपसौभाग्यशालिनी रूपवती गेहिनी । एकदा तस्या भर्तरि देशान्तरं गते रणमल्लाऽभिधः कश्चिद्युवा जारस्तां प्रार्थयाञ्चक्रे । शीलरक्षाविचक्षणा सापि कल्ये तवेप्सितं विधास्यामीति विलम्बेन कालक्षेपं चकार । सोऽपि मनोज्ञवसनाऽ ऽ भरण- कुसुम - ताम्बूलाऽऽदि तद्गृहे प्राहिणोत् । धीमती साऽपि तत्प्रहितं समस्तमरक्षत् ।
अथ भर्तरि गृहमागते रात्रेः प्रथमे यामेऽद्य त्वयाऽऽगन्तव्यमिति तया सङ्केतितः स कामी तथा व्यधात् । वासगृहद्वारं पिधाय तेन सह दम्भेन प्रेमाऽऽलापप्रह्वायां तस्यां पूर्वदत्तसङ्केतस्तस्याः पतिर्द्वारे समेति स्म । यावदसौ मम पतिर्मया रन्त्वा शेते तावद्भवानस्यां मञ्जूषायां प्रविशतु, इत्यभिधाय विवस्त्रं तं मञ्जूषान्तर्निधाय तन्मुखेन च बृहत्तालकं दत्त्वा पत्या सह सम्भोगं विधाय च सा निर्भरं शेते स्म । अथ दैवयोगेन देशान्तरादागतस्याऽस्य गृहे भूरि धनं भावीति धिया तस्यामेव निशि तस्करैस्तस्यौकसि खात्रं पातितम् । अन्यद्वस्तु गृहान्तरनिरीक्ष्य दत्तबृहत्तालका सा मञ्जूषा तैश्चौरैः स्वगृहं नीता । अथ प्रभाते हा! हा ! मञ्जूषा गतेति भृशं खेदं विदधतं पतिं सा सकौतुकमवक् ।
२०२
न करता ते कीधु, कीधु ते चोरे लीधु ।
मुध उठइ इहां जे घासइ, सिंहा सातपांच मिलससइ हससइ हाथ घससइ ॥ १॥ इत्यभिधाय सर्वमुदन्तं सा विस्तरतो जगौ । अथोद्घाटितायां तस्यां मञ्जूषायां नग्रं मुक्तकेशं च तं निर्गतं विलोक्य ते चौरास्तालवादनपुरस्सरं जहसुस्तमाम् । ॥ इति शीलविषये रूपश्रीश्रेष्ठिप्रियाकथा ॥ १७९ ॥
॥ १८० ॥ असत्यविरतौ मृगाङ्कभूपकथा ॥ असत्यवचनैर्भूरयो दोषाः स्युः, यतः -
असत्यवचनाद्वैर - विषादाऽप्रत्ययादयः ।
प्रादुःषन्ति न के दोषाः । कुपथ्याद् व्याधयो यथा ॥ १ ॥ [ योगशास्त्रे २/५८ ] तदसत्यं धन्या एव केऽपि विमुञ्चन्ति यतः -
मिष्टानि मांस-मधु-जार- मृषा - वचांसि श्रुत्वा कथामिति चतुर्वरकन्यकोत्थाम् । नाऽसत्यमार्गविरता इह के भवन्ति, राजेव पण्यरमणीरचितप्रपञ्चः ॥ २ 11
तथाहि - श्रीपुरे नगरे मृगाङ्को राजा, तत्र च श्रेष्ठि- पुरोहित - मन्त्रि - वेश्यापुत्र्यः कनक श्री - यमुना - श्रीमती - कामसेनासंज्ञाश्चतस्रः कन्यका मिथः सौहार्दभाजो वसन्ति । एकदा रात्रावेकत्र मांस-मदिरा- पारदारिकत्व - मृषावचनानि मनोहराणीत्यनुक्रमेण मिथः पृष्टानां तासां रह:कथां रात्रिचर्यायां भ्रमन् भूपो निशम्य दध्यौ ।
अहो वणिग् - विप्र-मन्त्रकुलानुचितं मांस - सुरा - जारत्वचारुत्वं कथमेता बालिका अपि विदन्ति ? कथं चैषा बालाऽपि वेश्यासुता मृषावादसौष्ठवं वेत्तीति मत्वा राजा गृहमागत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org