________________
२०१
तरङ्ग ८/ कथा १७८/१७९ तमुपलक्षयामीति। अथ कस्तव गुणः ? किंनामा च त्वमिति तैः पृष्टे राजोचे, यत्र चौरवृन्देऽहं भवामि तेषां चौरदण्डेन न मरणं, विक्रमश्च मम नामेति। अथ ते पञ्चाऽपि राजमन्दिरे गताः, तत्र च खात्रदाननिपुणेन खात्रे दीयमाने शिवाशब्दं श्रुत्वा किमेषा वक्तीति क्रमेण पृष्टः शाकुनिक: स्माह, धनिको जागर्ति धनिको जागर्तीत्यसौ वक्ति। अहो! शकुनकलाऽस्य ! इति ध्यायता तेन च पुनर्च्कशब्दमाकर्ण्य किमयं वेदयतीति पृष्टः स प्राह- धनिकः पश्यतीत्ययं ब्रूते। अथ सौधान्तः प्रविष्टेषु तेषु पुरतो निबद्धस्यैकस्य शुनः शब्दं निशम्य विक्रमेण पृष्टः स पुनरवोचत्, अत्र मा प्रविशन्तु मा प्रविशन्तु इत्ययं वदति। तदैव च तन्निकटस्थस्य द्वितीयस्य शुनः शब्दमाकर्ण्य किमयमपि वदतीति पृष्टः स पुनरवादीत्, पार्श्वस्थं वदन्तं श्वानगयमिति वक्ति, हे मित्र! मौनभाग्भव, आत्मनां धनिकोऽभ्येतीति । एतदुक्तमाकर्ण्य विस्मितो विक्रमोऽस्य कला वरीयसीति दध्यौ।
अथ पुरतो गत्वा पेटीषट्कं प्राप्य किमासां मध्येऽस्तीति पृष्टस्तृतीयो जगौ। सर्वासु षट्सु चेमासु पेटीषु मणि-रत्न-रजत-कनक-माणिक्यादि भूरि वस्तु वर्तते। अथैकां पेटी खात्रमुखे विमुच्यैकैकां चादाय ते पञ्चापि माणिक्यचतुष्के श्वेत-रक्त-श्याम-नीलपीतवस्त्राणामात्मनां सङ्गम इति सङ्केतं कृत्वा स्वं स्वं स्थानं गताः । अथ प्रातरहो अद्य राज्ञि रक्षितरि राजौकसि खात्रं पतितमिति वदन् कोट्टपालस्तां पेटी स्वगृहे विमुच्य खात्रस्वरूपं राज्ञो व्यज्ञपयत्। अद्य रात्रौ चौरग्रहणमहं करिष्यामीति भणित्वा सभास्थितो राजा रात्रिसङ्केतितवेषचिह्नेन तांश्चतुरोऽपि निबध्य स्वपुरुषैरानयत्।
निहन्यताममी चौरा इति वदन्तं राजानं चतुर्थः स्माह, हे देव! रात्रावस्माकं पञ्चमस्त्वममिलः, तेनाऽस्मदुक्तममिलत्, भवदुक्तं तु मुधा भवतीति वदन्तं तं स्वरज्ञाननिपुणं मत्वा तेषां चतुर्णामपि ताः पेटीदत्त्वा राजा तान् स्वसेवकत्वेनाऽरक्षत् । तां पेटी च लात्वा कोट्टपालं स्वदेशान्निरवासयत्। ते श्रीचन्द्रादयोऽपि विमुक्तचौर्यव्यसना राजमान्याः सञ्जज्ञिरे। ॥ इति दानविषये श्रीविक्रमादित्यकथा ॥ १७८॥
॥ १७९॥ शीलविषये रूपश्रीश्रेष्ठिनीकथा ॥ मृगीदृशो हि शीलेनैव शोभन्ते, यतः
नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी। शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः ।
सत्पुत्रेण कुलं वनानि कुसुमैर्नीत्या प्रभुत्वं यथा ॥१॥ धन्याः स्त्रियः कपटेनाऽपि शीलं पालयन्ति, यतःरक्षन्त्युपायैरपि काश्चिदार्याः, स्वं शीलमुन्मीलितवर्यशौर्याः । यत् श्रेष्ठि-नार्या कपटेन जारं, पेट्यां निधायावितमात्मशीलम् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org