________________
२००
श्री कथारत्नाकरे
श्री हेमविजयरचिते विधीयते तत्र तत्र तीर्थे तेन तेन विधिना अस्यास्तुम्बिकाया [अपि] स्नानं कारणीयमिति मदुक्तं विधेयमिति मात्रोक्तमङ्गीकृत्य यथारुचितेषु तीर्थेषु च गत्वा मात्रोक्तं विधाय च मुण्डितमुण्डः प्रभूतमुद्राऽङ्कितबाहुदण्डः स महोत्सवपुरस्सरं स्वपुरमागात्। गङ्गादिभ्योऽपि सर्वतीर्थेभ्यो जननी-जनको परमं तीर्थमिति ध्वात्वा विनयेन स मातुः पादौ प्रणम्य यथाऽभिहितविहिततुम्बिकाव्यतिकरं चाऽभिधाय भोक्तुमुपविष्टस्य तस्य स्थाले तस्यास्तुम्बिकायाः शाकं विधाय माता पर्यवेषयत्।
सोऽपि तं शाकमास्वाद्य- अहो! अखाद्यं विषभतं चेति वदन्तं च तं माता बभाण, हे पुत्र! त्वमित्थं मा वादीः, या तुम्बिका भवता तीर्थजलैः स्नपिता, तस्या अपि शाके कटुकत्वं कुतः? तेनोक्तं हे मातर्जलैर्मज्जिताया अपि तुम्बिकाया अन्तरङ्ग कटुकत्वं कथं याति ?, मात्रोक्तं- हे वत्स! जलैः स्नपिताया अप्यस्याः कटुकत्वदोषो न गतस्तदा हिंसा-मृषावाद-स्तेय-मैथुनादिजनितमान्तरमात्मनि लग्नमघजालं जलस्नानेन कथं यातीति मात्रोक्तं सत्यं मत्वा गोविन्दो मात्रा सह धर्मधोषगुरोः पार्श्वे श्रावकधर्ममङ्गीकृत्य प्रपाल्य च द्वादशे देवलोके सुरः समजनि। ॥ इति जलस्नानैर्नाऽऽन्तरो मलो यातीत्यर्थे गोविन्दसार्थवाहकथा ॥ १७७॥
॥१७८॥ दानविषये श्रीविक्रमादित्यकथा ॥ शूर-पण्डितेभ्योऽपि दाता दुर्लभः यतःशतेषु लभ्यते शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥ १॥
दातारो हि सर्वं यच्छन्ति यत:
खात्र-स्वरा-ऽन्तःस्थितवस्तु-नाद-विदां चतुर्णामपि तस्कराणाम् ।
श्रीविक्रमोऽदान्मुदितः स्वपेटी-र्यच्छन्ति तत्किं न हि दानवीराः ॥ २॥
तथाहि- अवन्त्यां नगर्यामन्यदा चौरैः प्रकाममभिभूतः पौरवर्गः सभाऽऽसीनं श्रीविक्रमादित्यमेत्येति पुरीस्वरूपं जगौ। राज्ञाऽपि साक्षेपं हक्कितास्तलारक्षा आचख्युः, हे देव! पवनघटिता इव तस्करा अस्माभिर्गृहीतुं न शक्यन्ते, अथ भवतां भव्यं भवितेत्यभिधाय पौरवर्गं च विसृज्य निशि चौरवेषधारी राजा यावच्चत्वरे तिष्ठति, तावत् श्यामाऽम्बरधारिणोऽङ्गीकृतचौरोपकरणाश्चत्वारः श्रीचन्द्र-गुणचन्द्र-भूरिचन्द्र-धीरचन्द्रनामानश्चौराः समागताः ।
अथ तैस्तस्करसंज्ञयाऽऽकारितो राजापि चौरोऽहमिति जल्पस्तत्पार्श्वे समेत्य कः कः श्रीमतां गुणोऽस्तीति वक्ति स्म। तेष्वेकेन खात्रविधौ विशारदोऽस्मीति कथिते द्वितीयः प्राह, सर्वेषां विहगादीनां स्वरज्ञानतः शकुनेषु मम वैदग्ध्यमस्तीतितेनोक्ते तृतीयः स्माह, पेटीमञ्जूषादिमध्यस्थं वस्तु घ्राणेन वेद्मीति तेनाभिहिते चतुर्थः प्रोवाच, यस्य कस्यापि पुरुषादेर्दिवा-नक्तं वाप्येकशः शब्दः श्रुतो भवति [तत्] शब्दाऽनुसारेण वर्षशतप्रान्तेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org