________________
तरङ्ग ८/ कथा १७६/१७७
१९९ ऽभिदधिरे, तदा च कामपताका मुखं पाणिना पिधाय सविनय-मधुरवचनैरूचे, हे धर्मबान्धव! कौशाम्बीवासिनी श्रमणोपासिकाहं श्रीमतीनामवाणिजी, इमे च मत्स्नुषे, अनयोः पतिर्मत्सुतः परदेशे मृतः, तेन संसारवासाद्विरक्ते इमे तपस्यामादातुमनसौ मामूचतुः, मया चोक्ते- हे पुत्र्यौ ! तीर्थयात्रा-सङ्घवात्सल्य-जिनभुवनादिषु धनव्ययं विधायाऽहमपि भवतीभ्यां सह तपस्यामादास्यामीति तीर्थयात्रां विधातुमहमिहागताऽस्मीति श्रुत्वाऽभयोऽपि बलात्कारेण भोजनार्थमात्मधामनि ता आनयति स्म।
अथ ताभिर्भोक्तुमुपविष्टाभिः सचित्तवस्तु-विकृति-गुडनिष्पन्नवस्तु-हरितशाकादिप्रत्याख्यानेन चतुर्दशनियमविवेकेन च रञ्जितो मन्त्री तद्भोजनेन स्वं कृतार्थं मेने । ता अपि भोजनार्थं मन्त्रिणं निमन्त्र्य स्वोत्तरणस्थानं ययुः। सरलात्मा सचिवोऽपि भोजनवेलायां तत्र जगाम। ताभिर्भोजनप्रान्ते दधिस्थाने चन्द्रहासमदिरां भोजितो मन्त्री मदिरामूर्च्छितो बाढं बद्ध्वा रथे निधाय स्तोकैरेव दिनैश्चण्डप्रद्योताय दत्तः। ॥ इति स्त्रीमतिविषयेऽभयमन्त्रिवञ्चनाचतुरकामपताकागणिकाकथा ॥ १७६ ॥
॥ १७७॥ जलस्नानैनन्तिरो मलो यातीत्यर्थे गोविन्दसार्थवाहकथा ॥ तपोभिरेवाऽऽत्मा नैर्मल्यभाग्भवति, यतःक्षारैरिवाऽम्बरमपां प्रकरैरिवाङ्गं, शाणैरिवाऽस्त्रमनलैरिव जातरूपम् । भूर्गोमयैरिव च नेत्रमिवाऽञ्जनैश्च, नैर्मल्यमावहति तीव्रतपोभिरात्मा ॥ १॥ तेन जलस्नानेनाऽन्तरात्मा कालुष्यं नोज्झति। यतःन बाह्यशौचैरमलीभवन्ति, जीवा दुरन्तैर्दुरितैः प्रलिप्ताः । मिष्टा सुतीर्थे स्त्रपिताऽपि मातु-र्वाग्भिस्तनूजेन न तुम्बिकाऽऽसीत् ॥ २॥
तथाहि- विष्णुस्थले परमश्राविका गोमती सार्थवाही, तस्याश्च परममिथ्यादृष्टिोविन्दः सुतः, मात्रा जैन धर्मं प्रतिबोधितोऽपि पुत्रश्चन्द्रः कलङ्कमिव मिथ्यात्वं नाऽत्याक्षीत्।
एकदा तीर्थयात्रायां यातुमुद्यतं तं माता स्माह, हे वत्स! लौकिकतीर्थयात्रया जन्मनः फलं नाऽऽप्यते, किन्तु धनव्ययादिक्लेश एव। किञ्च गङ्गा-गोदावरी-सरस्वतीयमुनात्रिवेणीसङ्गमे जल-दर्भ-मृत्तिकादिस्नानेनाऽऽत्मनः प्राणातिपात-मृषावादादिसम्भवमालिन्यं न यातीति बहु शिक्षितोऽप्यसौ यदा न न्यवर्तत, तदा तत्प्रतिबोधनाऽभिप्रायेण सा चैकां कटुकां तुम्बिकां तत्करे दत्त्वैवमूचे। हे पुत्र! यत्र यत्र तीर्थे येन येन विधिना त्वया स्नानं १. हास्या AHI "हास्य - D॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org