________________
१७२
श्री कथारत्नाकरे
श्री हेमविजयरचिते शतबुद्धिः शिरःस्थायी, सहस्रधीः प्रलम्बितः ।
एकबुद्धिरहं भद्रे!, क्रीडामि विमले जले ॥ ४॥ इति तया स्वपतेर्मतिरतिशायिनी मेने ॥ इति साऽपायस्थानाद् गमने श्रेय इत्यर्थे कर्करभेक-बरण-वरणमकरकथा ॥ १४७॥
॥१४८ ॥ बुद्धिविषये बलकनामशशककथा ॥ मतिमान् यत्तनोति तन्न वित्तबलपरिवारराज्यपाण्डित्यवान् । यत:यत्कुर्यान्मतिमान्नूनं, तत्कुर्यान्न पराक्रमी । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥१॥
___ तथाहि- श्वापदशरणाऽभिधे महत्यरण्ये दुर्धरो नाम केसरी, तत्रैव च मतिमान् बलको नाम शशकः, अन्यदा तस्य मृगारेस्त्रासमसहिष्णुभिः सिन्धुर-शूकर-शार्दूल-सारङ्गशम्बर-शृगालादिभिः श्वापदैस्तद्वधाय बलको विज्ञप्तः, मतिमान् सोऽपि तद्वधं प्रतिश्रुत्यैकदा मायया शनैः शनैर्गच्छन्- हे मातुल! जोत्कारं कुर्वन्नस्मीति च भूयो भूयो भणन् कन्दरोदरे सुप्तस्य तस्य पार्श्वे ययौ। प्रत्यहं तत्रैव तिष्ठन्नेकदा कस्त्वमिति तेनोक्ते स स्माह- हे मृगाधिराज! भवद्भयेन सर्वेऽपि श्वापदाः प्रणष्टाः, परमहं तु देवपादप्रेष्यत्वेन निर्भयोऽत्र स्थितोऽस्मीति तेन भणिते सिंहेनापि तदुक्तमङ्गीचक्रे । एवं मायया तमात्मसाद्विधायैकदा बलकस्तं जगौ, हे देवाऽस्मिन्नरण्ये भवतां प्रतिभटः कोऽपि समागतोऽस्ति।
स क्वाऽस्तीति तेनोक्ते शशकः प्रोचे- आगम्यतां देवपादा ! यथा तमहं दर्शयामीति भणित्वा पुरस्ताद्बलकः पृष्टे च दुर्धर एवमेकस्य कूपस्य समीपे तौ द्वावपि प्राप्तौ। तदा च बलकेनोक्तं-हे स्वामिन् ! पश्याऽस्मिन् कूपे भवत्प्रतिभटोऽस्ति । दुर्धरोऽपि तत्कूपजलाऽन्तः स्वप्रतिबिम्बे सञ्जातप्रतिभटबुद्धिः स्वं वैरिणं हन्मीति धिया तदुपरि कूपे पतितो मृतश्च । अथ शशकेन तन्मरणे ज्ञापिते सर्वेऽपि श्वापदाः सुखभाजो बभूवुः । ॥ इति बुद्धिविषये बलकनामशशककथा ॥१४८॥
॥१४९ ॥ गुरु-कुगुरुविषये सिंह-शृगालकथा ॥ सुगुरुर्हि स्वमन्यांश्च तारयेत् यतः
अवद्यमुक्ते पथि यः प्रवर्तते, प्रवर्तयत्यन्यजनं च नि:स्पृहः ।
स सेवितव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥१॥ कुगुरुस्तु उभावपि मज्जयेत्, यतः
जह लोह-सिला अप्पं पि, बोलए तह विलग्ग-पुरिसं पि ।
इअ सारंभो अ गुरू, परमप्पाणं च बोलेइ ॥ २॥
अपि च१. AHP कन्दरोदरे । २. AHP सु x ३. AHP स्वयं तरंस्तारयितुं क्षमः परं ।स सेवितव्यः स्वहितैषिणा गुरुः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org