________________
तरङ्ग ६ / कथा १४५ / १४७
१७१
तथाहि–मनोरमानामकुलङ्कषायाः कुले मराली - मरालौ दम्पती वसतः स्म । अन्येद्युस्तत्कुले क्रीडन्तौ तौ तत्प्रवाहे वहमानमेकं मूषकं पश्यतः स्म । तदा च तत्पयो भरैरितस्ततो हन्यमानं ब्रुडन्तं तं विलोक्य जातकरुणेन सरलाऽऽत्मना हंसेनाहमेनमितो निष्कासयामीति भणिता हंसी व्याहरत् - हे नाथाऽमी द्विधापि वज्रदशनाः पापाऽऽत्मनो नीचाश्च तेनामीषामुपकारकरणेन नाऽऽत्मनां कल्याणमिति निषिद्धोऽपि द्विधापि धवलात्मा स जले मज्जन्तं शीतेन कम्पमानं च तं मुखेनाऽऽदाय पक्षान्तराले ररक्ष । निर्वाते तत्र स्थितः स पापात्मा सज्जीभूतो वज्रकठिनैः स्वदशनैस्तत्पक्षांश्चकर्त । हंसोऽपि क्षणान्तरेण तं सुखिनं जातं मत्वा तं मुखेनादाय नभस्युत्पतन् कृत्तपक्षो नदीप्रवाहे पतितो मृतश्च स मूषकोऽपि तथैव मृत्वा नरके ययौ । ॥ इति नीचानामुपकारकरणेनाऽनर्थ इत्यर्थे हंस - मूषककथा ॥ १४६ ॥ ॥ १४७॥ सापायस्थानाद गमने श्रेय इत्यर्थे कर्करभेक-बरण-वरणमकरकथा ॥ व्यसनाऽऽगमे हि परत्र गमनं श्रेयः, यतः -
व्याधिमालिन्यदौर्गत्या-पमानव्यसनाऽऽगमे ।
परदेशं विना न स्या- दिह श्रेयो मनस्विनाम् ॥ १॥
तेन व्यसनवति स्थाने स्थितानामकल्याणं, ततो नष्टानां च कल्याणं, यतः - समायातेष्वर्थेषु, यो नश्यति स जीवति । निदर्शनमिह स्पष्टं, भेकश्च मकरावपि ॥ २ ॥ तथाहि-- पद्माकरनामन्येकस्मिन् महति द्रहे कर्करो नामैको भेको, बरण-वरणनामान करौ त्रयोप्यमी सुहृदः, एकदा तस्मिन् ह्रदे समेतान् कैवर्तान् विलोक्यैको भेको मकरौ प्रति जगौ - हे भ्रातराविदं स्थानं साऽपायं, तेनाऽऽत्मनामिहाऽवस्थाने न भद्रमिति तेनोक्ते तावूचतुः मम धियां शतं मम च धियां सहस्रमित्यनुक्रमेण ताभ्यामभिहिते भेकोऽभणत्— हे सुहृदौ ! धियां शतं सहस्रं च युवयोः प्रत्येकमस्ति तथापि तेष्वात्मवैरिष्वागतेषु नैकापि धीः स्फुरिष्यति, किं च ममैकैव धीरस्ति, यद्वैरिवासे न श्रेयः, यतः -
विष बालि रंडापणुं, विष गायन नई खास ।
विष दालिद्री गोठडी, विष वइरिनउ वास ॥ ३ ॥
हे भेक ! भवान् भीरुरस्तीति ताभ्यां भणिते निशि ततो निर्गत्य सपरिवारो भेकोऽधीवराऽऽगमेऽगाधे क्वाऽपि जलाऽऽशये सुखं तस्थिवान् । इतोऽन्यदा तत्रागतैः कैवर्तकैस्ततो जालेन तावाकर्ण्य मकरौ हत्वैकः शिरस्थो द्वितीयश्च करेण प्रलम्बित इति तौ नीयमानौ विलोक्य तेन भेकेन भद्रानाम्म्री स्वमहिलाऽभाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org