________________
१७०
श्री कथारत्नाको
श्री हेमविजयरचिते भवतां कृते यावत्पाथेयमानयामि तावद्भवन्तोऽस्मिन् सरले पथि चलन्तु, यदि च कोऽपि वक्ति भवन्तो मार्गभ्रष्टास्तदा स तस्करः प्रस्तरैरिणीय इति शिक्षां दत्त्वा, तत्र चैकस्य गिरेः परितः प्रदक्षिणाऽऽवृत्त्या पर्यटतस्तान् कृत्वा च गते तस्मिन् धूर्ते तथैव भ्रमन्तस्ते यूयं मार्गभ्रष्टा इति केनापि पथिकेनोक्तास्ते चौरोऽयमिति तं पाषाणैर्ध्नन्ति स्म। एवमन्येनापि केनाप्यभिहितास्तं प्रहरन्तस्ते क्षुत्पिपासापीडिता मृत्वा नरकं ययुः॥ इति कुगुरुभ्रामितानां न सद्गुरुवचसि विश्वास इत्यर्थे पञ्चशत-गताऽक्षकथा ॥ १४४॥
॥ १४५॥ बुद्धिविषये कूरणाऽऽभीरकर्भकरकथा ॥ मन्तुमन्तोऽपि मतिमन्तो न गृह्यन्ते यतः
प्रायः कृतापराधोऽपि, बुद्धिमानैव गृहाते ।
मोदकान् जग्ध्वाप्याभीरः, सत्योऽभूद्भाण्डभञ्जनात् ॥ १॥ तथाहि-सणासणग्रामे बलाहकस्य कुटुम्बिनो बुद्धिमानाभीरकुलोद्भवः कूरणाऽऽह्वः कर्मकरः । एकदा स कूरणः स्वस्वामिस्नुषामानेतुं रथस्थो रथवर्तिनि पुरे तत्पितृगृहं गतः। सुताया आकारणार्थमागतोऽयमिति तदम्बया जामातृवद्भोजनादिना स सत्कृतस्तत्र कियन्ति दिनान्यस्थात् । अथ चारुकलिका-कर्पूर-केसर-कोल-जातिफलं-कस्तूरिका-खर्जूरा-ऽक्षोटकलविङ्लादिमदकारिद्रव्यमिश्राणां मोदकानामष्टोत्तरशतमेकस्मिन् मृद्भाण्डे निधाय तन्मुखे च मुद्रांविधाय तत्सङ्ख्यासूचकंच लेखं कूरणकरेदत्त्वासा सुस्थापितां स्वसुतां तेन सह सणासणग्रामे प्राहिणोत् । सोऽपि तद्भाण्डं रथमुखे निबध्य रथस्थस्तामादाय पथि चलन् दध्यौ, स्वगृहं गतस्य ममाऽमीषां मोदकानां लेशोऽपि नैष्यति, तेनाऽधुनैवैतानीति मत्वा शोकेन मुखं पिधाय सुप्तायां तस्यां स कियतो मोदकानत्ति स्म।
लेखाद् ज्ञातप्रमाणो मत्स्वामी ममोपालम्भं दास्यतीति ध्यात्वा तद्भाण्डं च भक्त्वा सद्यस्कानां तेषां मोदकानां क्षोदं तं च लेखं लात्वा गृहं गतः स स्वस्वामिने ददौ । वाचितलेखः सोऽपि तं मोदकक्षोदं विलोक्य तत्कपटमजानँस्तस्मिन् प्रीतिपरोऽभवत् । ॥ इति बुद्धिविषये कूरणाऽऽभीरकर्मकरकथा ॥१४५ ॥
॥१४६ ॥ नीचानामुपकारकरणेनाऽनर्थ इत्यर्थे हंस-मूषककथा ॥
पापाऽऽत्मसूपकृतमपि प्रत्युताऽनर्थाय स्यात्, यतःअनर्थाय भवेन्नीचे-धूपकारः सतामपि । पक्षाऽन्ताऽरक्षितो हंस-माखुः शीघ्रममारयत् ॥ १॥ १. जातिकोश AHPDI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.