________________
तरङ्ग ६./ कथा १४२/१४४
१६९ एकदा विजनगृहे सुखेन स्वैराऽऽचारः स्यादिति मत्वा, हे नाथ! मूर्योऽयमिति त्वां लोको हसतीति स्त्रियोक्ते स वाणारसीपुरीं गत्वा विशेषतः पठित्वा गृहमागतः। '
अहो पुनरयं मम सम्भोगसुखे प्रत्यूहरूपः समेत इति कुलटया तया स पुनरूचे, हे नाथ ! त्वया किं पठितं स्त्रीचरित्रं ? नेति तेनोक्ते जीवं विना वपुरिव, नयनं विना मुखमिव, तद्विना पठितमपि सकलं शास्त्रं मुधेति पुनस्तया प्रेरितः स निरक्षरस्तदर्थं पर्यटन्महेश्वरपुरे प्राप्तो जलाऽर्थं व्रजन्ती हरिणीनामद्विजगृहिणीमत्र पुरे स्त्रीचरित्रं किं कोऽपि पाठयतीत्यप्राक्षीत्। कयाऽपि स्वैरिण्या स्त्रियावश्यमयं मूढो वञ्चितोऽस्तीति मत्वाऽहमेव त्वां तत्पाठयिष्यामीत्या-ऽऽहूतः स तया सह तद्गृहमाययौ । तयाऽपि मत्सहोदरोऽयमागत इति स्वपतिप्रभृतीनां निवेद्य मज्जनभोजनादिभिः सत्कृतः स निशि गर्भगृहे सुप्तः। सम्भोगार्थमर्थितश्च त्वं मम स्वसेति तेन निषिद्धे तया द्वारं पिधाय 'कण्ठे लग्न' इत्यभीक्ष्णं भणित्वा धावत धावतेति बाढं पूत्कृते सति सर्वोऽपि तत्परिवारो द्वारमायातः, हे सुन्दरि! त्वदुक्तमहमवश्यं विधास्यामि, मां वराकमितः सङ्कटान्मोचयेति तेनोक्ते तद्भुक्तोच्छिष्टाऽन्नपूर्णमेकं पात्रं भुवि लोठयित्वोद्घाटिते द्वारेऽन्तरागत: परिवारस्तयोचे, मम भ्रातुर्विसूचिकायां जायमानायां कण्ठे ग्रासो लग्नस्तेन च कण्ठे लग्न इति भणन्त्या मया धावत धावतेति पूच्चक्रे ।
इति निशम्य गतेषु तेषु किं स्त्रीचरित्रमधीतमिति सा तमाह । नेति तेनोक्ते तद्गृहिणीस्वरूपे च तया कथिते सोऽपि गृहमागतः स्वस्त्रीचरित्रं निरीक्ष्य वैराग्येण तापसोऽजनि ॥ इति स्त्रीचरित्रे हरिणीनामब्राह्मणी कथा ॥ १४३॥ ॥१४४॥ कुगुरुभ्रामितानां न सद्गुरुवचसि विश्वास इत्यर्थे पञ्चशत-गताक्षकथा ॥ कुगुरुभ्रामितानां पुंसां सुगुरुवचनेषु विश्वासो न स्यात्, यतः
उन्मार्गे पातिताः पापैः, सत्सु सन्मार्गदर्शिषु ।
पश्यता भ्रामिता अन्धा, इव कुप्यन्ति देहिनः ॥ १॥ तथाहि-नालाकच्छे पुरे सुरसेननामा राजा बधिर-पङ्ग-मूकाऽऽदीनामाजीविका सुकरा, परमन्धानां च दुष्करेति मत्वा स पटहवादनपूर्वमन्धानां पञ्चशतीं मेलयित्वा तेषामशनवसनादि यद्विलोक्यते तत्प्रयच्छति । भूपमानितत्वेन पौरैरपि ते सर्वेऽप्यन्धा भूपवत्सत्क्रियन्ते स्म । इतस्ततो गच्छतामात्मनां दुष्करमिति ध्यात्वा क्रमेण सधनैस्तैरेकः पश्यन् पुमान् सेवकत्वेन रक्षितः । राजसेनपुराऽधीशो राजचन्द्रो राजा गताक्षाणां भोजनादि प्रत्यहं प्रत्येकं चैकं सुवर्णं दत्ते, अतः सर्वेऽपि भवन्तस्तेनाऽऽकारिताः सन्तीति तेन धूर्तेनाऽन्यदा कूटलेखवाचनपुरस्सरं वञ्चिताः। द्विधाप्यन्धास्तेऽप्येनं पुरस्कृत्य तत्करदत्तवित्ता राजसेनपुरं प्रत्यचलन् । अथाऽरण्यं प्राप्तास्ते तेनोचिरे। इतो भृशं विषमे पथि भोजनादि न लभ्यते, तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org