SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्री कथारत्नाकरे रोषोत्कर्षवशादशेषवदनैः प्रत्युत्तरं दत्तवानम्भोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः ॥ ४ ॥ चित्तचमत्कारकारककाव्यबन्धेन विशेषतस्तुष्टेन राज्ञा रजतद्विशतं तस्मै पुरोधसे दत्तम् । अथ तत्र तेन धनेन वृत्तिं कृत्वाऽग्रतः प्रस्थितेषु तेषु सम्भलपुरं च गतेषु तथैवान्यैरभिहितो मन्त्री पुरं प्राऽविशत् । तत्रापि वैरिसिंहस्य राज्ञो वैरिभूपैस्तोलनाय हस्ती प्रहितोऽभूत्, अत्रार्थे किङ्कर्तव्यमूढस्य राज्ञः पर्षदि स मन्त्री प्राप्तो हस्तितोलनं प्रतिपेदे । अथाऽध्यारोहितगजे पोते नदीजलाऽन्तर्नीते यावति पोते जलं लग्नं तावति पोते रेखां विधाय हस्तिस्थाने दृषद्भिर्भृतै रेखां यावज्जलान्तर्गते पोते दृषन्मानेन हस्तिमानं कृत्वा राज्ञः कथिते तेनापि तस्मै रजतत्रिशतं दत्तम्। तथैव तेन प्राणवृत्तिं विधाय पुरो गच्छद्भिर्भोजपुरं प्राप्तैस्तैस्तथैवोक्तोऽश्वपालस्तत्पुरं प्रविशंस्तत्स्वामिनो गुणसेनस्य राज्ञोऽपुत्रिणो मृतस्य शृङ्गारितमासीत् पञ्चदिव्यं, हस्तिन्या च कुम्भेनाभिषिक्तः स तुरङ्गपालकः, तस्मिन्नेव भाग्यलब्धराज्ये राजनि सिंहासनस्थिते प्राभृतपाणयः पौरा अपि तं प्राणमन् । अथ तदनागमाद्विषादमाप्तास्ते राजादयोऽपि लोकेभ्योऽवगतसमाचारास्तत्समीपेऽभ्यगुः, तेनाप्युत्थाय तेषां यथोचितमादरे कृतेऽवसरकृतप्रणयः पुरोहितः श्लोकमेकमपाठीत्— १६८ रूपेणैकशतं प्राप्तं, विद्यया द्विशतं मतम् I बुद्वया च त्रिशतं प्राप्तं, भाग्ये सङ्ख्या न विद्यते ॥ ५ ॥ अथ ते त्रयोऽपि तेन सत्कृता भाग्यमेव बलवत्तरं मन्यमानाः स्वस्थानं ययुः ॥ इति भाग्ये सारङ्गतुरङ्गपालकथा ॥ १४२ ॥ ॥ १४३ ॥ स्त्रीचरित्रे हरिणीनामब्राह्मणीकथा ॥ हरिणीदृशो हि कपटनिकेतनं, यतः श्री हेमविजयरचिते दुरितवनघनाऽऽली पापतोयप्रणाली, भवकमलमराली शोककासारपाली । विकटकपटपेटी मोहभूपालचेटी, विषयविषभुजङ्गी दुःखसारा कृशाङ्गी ॥ १ ॥ अपि च Jain Education International सुभ्रुवां कुटिलचेष्टितौकसां मन्महे कपटकेलिमद्भुताम् । स्त्रीचरित्रपठनाय पर्यटन, प्रत्यबोधि हरिणीदृशा द्विजः ॥ २ ॥ तथाहि — नारदपुर्यामुद्धवाह्वो विप्रः, तस्य च स्वैरिणीनां शिरोमणिर्भरणीनामगृहिणी, स च व्याकरण-तर्कादिशास्त्राणि भणितोऽपि लोकव्यवहारविकलत्वेन पठितमूर्खोऽयमिति लोके प्रसिद्धः । यतः काव्यं करोति परिजल्पति संस्कृतं वा, सर्वाः कलाः समधिगच्छति वाच्यमानाः । लोकस्थितिं यदि न वेत्ति जगत्प्रसिद्धां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥ ३॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy