________________
तरङ्ग ६/ कथा १४०/१४२
१६७ अथ मिलिताभ्यां स्त्रीभ्यां तद्वचने स्वीकृते पितृपुत्राभ्यां ते उभे अपि प्रतिपन्नरीत्या कलत्रत्वेन रक्षिते। अथ तेषां चतुर्णामपि जातानामपत्यानां मिथ: क: सम्बन्ध इति ममोरसि संशयोऽस्ति। तस्मिन् संशयाऽऽवर्ते पतितस्य किं वच्मीति चिन्तयतः कुबेरयक्षस्य प्रातरभूत्। प्रभाते च तं मन्त्रिणं तथैव विमुच्य तिरोहिते यक्षे मन्त्री सत्य इति पूजकेन विज्ञप्ते विस्मितो राजा मन्त्रिणं सत्कृत्य व्यस्राक्षीत्। अथ कियत्सु दिनेषु गतेषु मन्त्री तं हारं राज्ञे दत्त्वा हारचोरणयक्षवञ्चनादिकमाविष्कृत्य स्वप्रतिपन्ने समधिककलाभणनेऽभिहिते तुष्टो राजा तं विशेषतो बह्वमन्यत ॥ इति बुद्धिविषये मतिशेखरमन्त्रिकथा ॥ १४१ ॥
॥ १४२ ॥ भाग्ये सारङ्गतुरङ्गपालकथा ॥ कुञ्जकन्दरादिषु प्रविष्टमपि पुण्यवन्तं श्रीरनुसरति, यतः
यद्यपि कृतसुकृतादरः, प्रविशति गिरिकन्दरोदरेषु नरः।
करकलितदीपकलिका, तथापि लक्ष्मीस्तमनुसरति ॥ १ ॥ अपि च
पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः।
आश्रीयन्ते च सम्पद्भि-लताभिरिव पादपाः ॥ २ ॥ तेन पुण्यप्राग्भारमाहात्म्यं विलोक्य कः पुण्ये स्थिरो न स्यात् ? यत:
भूपविप्रसचिवाश्वपालकान्, रूपशास्त्रमतिभाग्यभासुरान् ।
श्रोत्रवर्त्मनि विधाय नाभवत्कस्यः धीः सुकृतवर्मनि स्थिरा? ॥ ३ ॥ तथाहि-- कूर्मग्रामे रूपचन्द्रस्य राज्ञो बुद्धिधनः पुरोहितः, सुबुद्धिः सचिवः सारङ्गाह्वश्च तुरङ्गपालक: एकदा चत्वारोऽप्यमी स्वस्वगृहभारं स्वस्वपुत्रेषु निवेश्य स्वस्वगुणपरीक्षार्थं स्वपुरतो निर्गत्योत्तरां दिशमधिश्रयन्ति स्म । अथ प्रथमतः समेते सिंहासने पुरे हे स्वामिनद्य व्ययोचितं धनं पुरतस्त्वमानयेत्यन्यैस्त्रिभिरुक्तस्य पुरं प्रविष्टस्य भूपस्य रूपविस्मितैर्लोकै रजतशतं दत्तम् । तस्मिन्नहनि तेन धनेन वृत्तिं विधाय पुरतश्चलितेषु तेषु रत्नरथे पुरे प्राप्तेषु, हे पुरोहित! अद्य व्ययोचितं वित्तं पुरतस्त्वमानयेत्यन्यैरभिहितः स पुराऽन्तः प्रविष्टः । तदा च तत्र सिंहराजस्य सभायां प्रतिष्ठानपुरादागतेन बलभद्रेण कविनैषा समस्या पृष्टा
अम्भोधिर्जलधिः पयोधिरुदधिरांनिधिर्वारिधिः । पण्डितपञ्चशतेनाऽस्यामपूरितायां विषादविधुरे च राज्ञि स पुरोधाः सद्यस्तामपूरयत्। अम्बा कुप्यति तात! मूर्ध्नि निहिता गङ्गेयमुत्सृज्यतां । विद्वन् ! षण्मुख! का गतिर्वद चिरादस्याः स्थिताया इह।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org