________________
तरङ्ग ६ / कथा १३८ / १४०
अन्ये चाऽपि युधिष्ठिरप्रभृतयो यावद्भवान् भूपतिः ।
नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ ५ ॥
न धरणी धरणीधर - स्युं गई, न नलभूपति भू सरसीलई । खयगया कुरुपंडवजगधणी, वसुमती किम कहियइ आपणी ? ॥६॥ इति लिखितं पत्रमादाय स भोजमवोचत्, हे भोज ! साक्षात्पापपुञ्जेन मुञ्जेनेदं पातकं कारितं, परमहं न करोमीति भणित्वा भोजं स्वगृहे विमुच्य सद्यो मारितमृगनेत्रे चाऽऽदाय, 'भोजो मारितस्तनेत्रे चेमे' इति स मुञ्जं जगौ ।
4
हन्यमानेन भोजेन किमुक्तमिति राज्ञा पृष्टः स तत्पत्रमदीदृशत् । मुञ्जोऽपि तत्पत्रं वाचयित्वा बाष्पितनेत्रो दध्यौ, हा मया पापिना राज्यलुब्धेन नररलं भोजो मारितोऽनेनाघेन घोरे नरकेऽपि मम स्थानं न भावीति पुनः पुनर्भणन् भोजमुखाम्भोजदर्शनं विना मम नाहार इति स्वं निर्णयं तस्य सेवकस्य सोऽवादीत् । अथ सप्तभिरप्यहोरात्रैरकृताहारस्य मुञ्जस्य सेवके यथास्थितमुक्तवति मुदितो मुञ्जो भोजं तद्गृहादानाय्य तस्मिन्नेवाहनि शुभे मुहूर्ते राज्ये न्यधात् ॥ इति राज्यलुब्धानामनर्थकरणे न त्रपेत्यर्थे मुञ्जभोजकथा ॥ १३९ ॥
॥ १४० ॥ स्त्रीणां रहस्यकथने अवश्यमनर्थ इत्यर्थे शेषनागकथा ॥ हरिणीदृशां मनसि रहस्यं न तिष्ठति, यतः -
१६५
स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । यन्नीतः पक्षिराजेन, यद्वशाद्भुजगेश्वरः ॥ १ ॥
तथाहि - एकदा भूयोभिर्भुजगैरुपद्रुतेन मनुष्यलोकेन विज्ञप्तेन देवेन्द्रेणाऽऽदिष्टो गरुडो भुजगानामष्टौ कुलानि मूलतो विनाश्य नवमं कुलं हन्तुमुद्यतः । प्रभूतं तस्य भयं ज्ञात्वा नागलोकात्प्रणष्टः पन्नगेश्वरो वाणारसीपुरीमेत्य विप्ररूपेण बहूनि छात्राणि पाठयन्नेकां सुरूपानामद्विजसुतां परिणीय च देवशक्तया पूरितसर्वसमीहितः सुखेन तत्रैकस्मिन् रहोगृहे तस्थिवान्।
Jain Education International
हे प्राणाधिनाथ ! राजाऽमात्यादिवृत्तिं विना त्वं यत्सकलं समीहितं सुखमनुभवसि तत्कुतः कथमिति भूयसा निर्बन्धेन सुरूपया पृष्टः स स्वं स्वरूपं जगौ । वैनतेयोऽपि चटकरूपेण तं गवेषयन् गङ्गापरिसरे जलार्थमागतायाः सुरूपाया घटोपरि निषण्णस्तया समं वर्त्मन्यचलत्। तदा च हे सखि ! तव भर्ताऽसौ राजसेवादिवृत्तिं विना कथमनुदिनमिदमनुपमं सुखमनुभवतीति रत्नावल्या सख्या पृष्टा सुरूपा निजपतिस्वरूपं यथास्थितमभणत्। वैनतेयोऽपि तदाकर्ण्य तथैव तद्गृहमागत्याऽऽत्मवैरिणं नागराजं केशेषु गृहीत्वा प्रकटितस्वरूपो गगनमुत्पपात । गत्वा च गहने वने हन्तुमुद्यतं तं जाततात्कालिकधीः सर्पाऽधिराजो जगौ —
For Private & Personal Use Only
www.jainelibrary.org