________________
तरङ्ग ६ / कथा १३७/१३८
नष्ट निधानज्ञानविशारदा बहवः पृष्टास्तथापि तदप्राप्त्या वीक्षापन्नेन तेन तत्राऽऽगताः श्रीयशोभद्रसूरयः पृष्टा यद्येकं पुत्रमस्माकं ददासि तदा तव निधिं दर्शयामस्तैरित्युक्ते तेनापि च तथेति प्रतिपन्ने गुरुपादैरहिवलयचक्राऽऽम्नायेन निधिः सद्यो दर्शितः । दैवादन्त्याऽवस्थां प्राप्तेन तेन विप्रेण स्वप्रतिज्ञा शोभनाय ज्ञापिता, प्रतिज्ञाभङ्गेन भृशं खेदं कुर्वाणं पितरं प्रति भवत्प्रतिज्ञामहं सफलीकरिष्यामीति तेनोक्ते तस्मिंश्च मृते परिवारमनापृच्छ्यैव स गुरुभिः सार्धं गतो दीक्षितश्च तैः, यदि कोऽपि जैन श्रमणो मालवे स्थास्यति तदा तं मद्भ्राता हनिष्यतीति तेनोक्ते गुरुभिर्द्विनवतिलक्षमिते मालवे स्वयतिविहारो निषिद्धः । धनपालोऽपि स्वसहोदरस्याऽमुमुदन्तमाकर्ण्य जैनयतिषु यम इव क्रुद्धो जैनदर्शनस्पर्शनकीर्तनेऽपि महत्पापमिति मिथ्यात्ववासितचेतास्तिष्ठति ।
१६३
इतो द्वादशाब्दैः शोभनोऽपि शोभनविनयप्रतिपत्त्या व्याकरण - नाममाला - साहित्यादि सर्वं शास्त्रमधीते स्म । एकदाऽनेन दीक्षितेन मालवदेशे विहारहानिरजनीति सङ्घाटकस्पर्धयाऽऽहारग्रहणार्थं गतः शोभनो 'भव्याऽम्भोज' इति चतुर्विंशतिजिनस्तुतिकरणाय व्यग्रमनाः पात्रस्थाने दृषत्खण्डमेवादायोपाश्रयमुपागतस्तत्स्पर्धाकारिभिर्हसितोऽहो अस्य लाभोदय ! इति च शोभनोऽपि मालवविहारमहं करिष्यामीति गुरून् विज्ञप्यैकाक्येव धारापुरीं प्रविशन् बहिरागच्छता धनपालेनेति वितर्कणावचनं भणता नमश्चक्रे - 'गर्दभदन्त ! भदन्त ! नमस्ते रुष्टोऽप्यसौ भ्राता किं करिष्यतीति निर्भयो मुनिरपि नमस्काराऽनुसारिणमेवाऽऽशीर्वादमाह 'मर्कटिकास्य ! वयस्य ! सुखं ते' इति नमस्कारपदाऽनुकारिपदमाकर्ण्य पण्डितोऽयमिति चमत्कृतेन विस्मृतपूर्वमुनिवैरेण धनपालेन कस्याऽतिथिरित्युक्तः स मुनिर्भवतामेवाऽहमतिथिरिति जगौ । अथ तदोकसि स्थिते मुनौ धनपालोऽपि रन्त्वा गृहमागत्य विहितदेवार्चनश्च यावद्भोक्तुमुपविशति तावत् स मुनिः स्मृतोऽशनार्थमाकारितश्च । अथ तस्मिन्नेवाहनि केनापि वैरिणा धनपालस्य मोदकान्तर्विषं दत्तम्, तस्मिन्नेव मोदके दीयमाने सविषोऽयमिति ध्यात्वा मुनिनापि तस्मिन्निषिद्धे किमन्तर्विषमस्तीति नाऽयमादीयते ? इति धनपालेनोक्ते विषमस्तीति मुनिराह । कथं ज्ञायते ? इति तेनोक्ते मुनिनापि तद्ज्ञापनायोष्णोदके मोदकखण्डे निक्षिप्ते शुकपिच्छोपमं तन्नीरं निरीक्ष्य विस्मितो धनपालोऽहो ! अद्याऽनेन महात्मनाऽहं जीवित इति विशेषतस्तस्मिँस्तुष्टः कथमिह विषं भवता ज्ञातमिति तमवोचत्, शोभनो मुनिराह - दृष्ट्वाऽन्नं सविषं चकोरविहगो धत्ते विरागं दृशोहंसः कूजति सारिका च वमति क्रोशत्यजत्रं विष्टां मुञ्चति मर्कटः परभृतः प्राप्नोति मृत्युं क्रौञ्चो माद्यति हर्षवांश्च नकुलः प्रीतिं च धत्ते द्विकः ॥ २ ॥
शुकः ।
क्षणात् ।
१. तुला - उपदेशप्रसादे व्या. २३ ॥
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org