________________
१६१
तरङ्ग ६/ कथा १३५/१३७ सर्वथा निर्धनीभूय शिरो मुण्डयित्वा गर्दभमधिरुह्य काहलादिदुःस्वरवाद्यपुरस्सरं चत्वरमहापथराजपथादिषु च भ्रान्त्वा परिहितपीवरनीलीचीवरा मत्पुरस्तिष्ठ, यथा तवोक्तं सर्वं कुर्वे । अथ लोभाऽभिभूतया तया सद्य एव तथैव विधाय कौतुकोत्ताननयनजनैराकुले तत्र देवकुले यावत्स्थीयते, तावत् स कीरस्तत्र तरोर्मूर्धनि स्थित्वैवमपाठीत्कृते प्रतिकृतं कुर्या-न्यायमार्गोऽयमीरितः । भवत्योत्पाटितौ पक्षौ, मया मुण्डापितं शिरः ॥ ४ ॥
___ इति भणिन्दा तत्राऽऽगतलोकानां पुरस्तस्याः स्वस्य च वृत्तान्तं निवेद्य यथास्थानं गते शुके लोकैर्निन्दिता सा वेश्यान्यत्र पुरे ययौ । इति विरुद्धं कुर्वतां विरुद्धकरणे न दोष इत्यर्थे विदुरकीरकथा ॥ १३५ ॥
॥१३६ ॥ मूर्यो भक्तिमानप्यनर्थहेतुरित्यर्थे भूप-वानरकथा ।
पण्डितैर्विरोधोऽपि वरं, न च मूर्खमैत्री। यतःपण्डितोऽपि वरं शत्रु-र्मा मूल् हितकारकः । वानरेण हतो राजा, विप्राश्चौरेण रक्षिताः ॥ १॥
अत्र कथाद्वयं, तथाहि-गजधरपुरे रिपुदमनो नाम राजाऽन्यदा विपरीतशिक्षितेन तुरगेणारण्यं नीतः । मृते च तस्मिन्नश्वे तृषाऽऽ” राजा जलार्थमितस्ततो भ्रमन्नेकेन वानरेणेक्षितः । शुष्कताल्वोष्ठरसनाऽऽननं तं तृषितं विज्ञाय तेन कपिना शीतलजलमञ्जुलफलपुष्पपत्रादिभिः तथा प्रतिचरितं, यथा स राजा तं कपि मित्रपुत्रकलत्रादिभ्योऽप्यधिकं प्रेमपात्रं मेने। अथ पृष्ठतः समेतस्य स्वपरिवारस्य कपिवृत्तान्तं निवेद्य देवमूर्तिमिव तं च सुखाऽऽसने निवेश्य स्वपुरमानीय च वरवसनाऽऽभरणभूषितं तं भोजनमज्जनशयनादिषु स्वकृत्येषु राजाधिकारिणं व्यधात् । अन्यदा दोलाखट्वायां सुप्तस्य भूपस्योदरोपरि पतितं पन्नगं विलोक्याऽहो अयमनर्थहेतुरिति ससम्भ्रमण भक्तिमताऽपि निर्विवेकेन तेन यामिकेन कपिना पाणिस्थनिशितकरवालः सर्पोपरि मुक्तः, तेनासिना स सर्पस्तदधस्तात् स्थितश्च स राजा, एवं तौ द्वावपि खण्डीकृतौ मृतौ च। ॥ इति मूर्यो भक्तिमानप्यनर्थहेतुरित्यर्थे भूप-वानरकथा ॥१३६ ॥
॥ १३७ ॥ शत्रुरपि पण्डितो वरमित्यर्थे सम्भरचौरकथा ॥ अथ द्वितीया कथा, तथाहि- मध्यदेशभूषणे सुरसेननामनगरे लीलाधर-लक्ष्मीधर-गदाधर-भूधरनामानो जन्मदुर्गताश्चत्वारो द्विजन्मानो वसन्ति । मरणादपि दौर्गत्यमधिकमिति तैर्मेने । यतः
उत्तिष्ठ क्षणमेकमुद्वह सखे! दौर्गत्यभारं मम। श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org