________________
१६०
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥ १३५ ॥ विरुद्धं कुर्वतां विरुद्धकरणे न दोष इत्यर्थे विदुरकीरकथा ॥
कृते प्रतिकृतं कुर्वतां न नीतिनाशः, यतःकृते प्रतिकृतं कुर्या-नीतिरेषा वपुष्मताम्। पक्षोत्पाटनवैरं यत्-कीरोऽलान्मुण्डमुण्डनात् ॥ १ ॥
__ तथाहि- देवभद्रपुरे भद्रसेनस्य श्रेष्ठिन: काव्यश्लोकगाथागीतादिविदुरस्य सुवर्णपञ्जरस्थितस्य कनककिङ्किणीशृङ्खलाद्याभरणभूषितस्य विदुरसंज्ञस्य कीरस्य काव्यादिभणनविनोदैः सुखमया इव यान्ति स्म वासराः । अन्यदा रूपयौवनरम्यायाः कामहाया गणिकाया गृहं गतः । ततस्तल्लुब्धः स तारुण्यलावण्योन्मत्तः श्रेष्ठी सदा तदोकसि ययौ। कदापि सापि तद्गृहमाययौ। एवं तयोः संस्तवं ज्ञात्वा शुक: श्रेष्ठिनमभाषिष्ट । हे नाथ ! एताः पण्याङ्गना निःस्नेहा उच्छिष्टा बहुभोज्याश्च । यत:
यद्वक्त्रं विटकोटिवक्त्रनिपतन्निष्ठीवनानां घटी । यद्वक्षश्च जनङ्गमाऽऽदिजनतापाणिप्रहारास्पदम् ॥ यद्गात्रं बहुबाहुदण्डनिबिडक्रोडीकृतिभ्रंशितं ।
प्रेमैतासुदधाति धावकिशिलातुल्यासुवेश्यासु कः? ॥२॥ अपि च -
रत्येवाऽसमसायक: पशुपतिः पुत्र्येव भूमिभृतः । शच्येवाप्सरसां पतिर्मुररिपुः पुत्र्येव पाथोनिधेः । रोहिण्येव सुधामरीचिरवनेः पुत्र्येव पौलस्त्यजि
द्वाहुभ्यां परिरभ्यते गणिकया वित्तेहया कुष्ट्यपि ॥ ३॥ एवं कीरनिषिद्धस्यापि तस्याः परिचयमत्यजतस्तस्यैकदा विलम्बे जाते तयोक्तः स कीरप्रतिबोधवार्ता तत्पुरो जगौ।।
असौ पापो मत्सुखेऽन्तरायकृदेवेत्येकदाऽहमप्येनं क्रीडयामीति मायया श्रेष्ठिपात्तिं शुकमादाय गृहमागत्य तत्पक्षावुत्पाट्य च मारणार्थं क्षुरिकामादातुं यावद् गृहान्तः सा प्रविशति, तावत्स धीरः कीरः शनैः शनैस्तद्गृहाङ्गणगततरुकोटरे निलीय तस्थौ । बहिरागता सा केनापि स पापो जग्ध इति निःशङ्का श्रेष्ठिना च कीरोदन्तपृष्टा क्वाप्यड्डीय गतः स इति प्रत्युत्तरति स्म। कतिचिद्वासरेषु पुनः प्ररूढपक्षः स स्ववैरमादित्सुरेकदा तद्गोत्रजायाश्चण्डिकायाः पृष्ठे वेश्याऽऽगमनक्षणे प्रविश्य प्रणमन्तीं तां 'हे पुत्रि! तव भक्त्याहं तुष्टास्मि, वरं वृणु' इति स्पष्टमाचख्यौ । हे मात:! शश्वद्यौवनां सौभाग्यपावनां बहुधनां वशीकृताशेषजनां च मां विधेहीति तयोक्ते देवीपृष्ठस्थः शुकः स्माह, मूल श्रीव्ययं कृत्वा त्रपुकाचाभरणानि परिधाय १. रजकशिला ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary:org