________________
तरङ्ग ६/ कथा १३३/१३४
१५९ विलोक्य किमिदं किमिदमिति पौराणां वाग्भिः स्वपुरमेवेदमिति निश्चित्य मुक्तनेत्रबन्धपट्टकास्ते सर्वेऽपि लज्जिता मुखानि पिधाय राजलोकाऽन्तरुपागताः। अथ कियत्सु दिनेषु गतेषु परिहितनवीनवसनः स भीमनामा भाण्डो जयशब्दपुरस्सरमाशीर्वाद भणन् राजसभामागतः । रे भीम ! भवान् मृतोऽभवत्, कथमिहाऽऽगत इति भणितो राज्ञा सोऽभणत्, हे देव ! यादृशा यूयं देवलोकं गतास्तादृशोऽहं मृतोऽभूवमित्याकाऽहो! अनेन भाण्डेन वञ्चितोऽस्मीति स्वप्रतिज्ञां मनसि निश्चित्य स्वप्रतिज्ञां च लोकानां पुरो निवेद्य च राज्ञा सपादलक्षप्रसादस्तस्मै कृतः ॥ इति स्वार्थे लुब्धा विरुद्धमपि कृत्यकारिण इत्यर्थे मधुमथननृपकथा ॥१३३ ॥
॥ १३४ ॥ बुद्धिविषये वृद्धाकथा ॥ अपि पङ्गुर्गताक्षोऽपि, वामनोऽप्यधनोऽपि च ।
अप्यबालश्च बालोऽपि, मुख्यः सर्वत्र बुद्धिमान् ॥ १ ॥ धीमान् हि विषमेष्वपि कार्येषु निर्वाहकृत् । यतः
दुःसाध्यकृत्यकल्लोके, बुद्धिरेव विजृम्भते।
शशिकेति धियामोचि, वणिक्त्री व्याधतोऽक्कया ॥ २ ॥ तथाहि-रम्भे पुरेऽतीवजडो भरडो नाम वणिक् । स चैकदा श्वशुरगृहे भामिनीनामस्वकामिनीमानेतुं गतः, तत्र श्वशुरादिभिः सत्कृतोऽयं तामादाय मार्गे गच्छन् 'बदरीजालकेऽस्मिन्नस्ति किं शशक?' इति मार्गमिलितेन करमणाह्वेनैकेन मृगयुणा भणिते नास्तीति सोऽवदत् ।
__ व्याधेन स्वशिरस्तेन च स्वकलत्रमिति पणं कृत्वा शोधितात्तस्माज्जालकात् शशके निर्गते तत्कलत्रमादाय गच्छतो व्याधस्य पृष्टे रुदन् गच्छन् स वणिक् अक्कानामैकया वृद्धया स्त्रिया पृष्टः सर्वं वृत्तान्तमवादीत् । कथमस्य पत्नी गृहीत्वा यासीति तयोक्तः स व्याधो मिथः कथितं पणं भूरिषु लोकेषु शृण्वत्सु तस्याः पुरो जगौ। अथ सा स्माह- रे मूढ मृगयो ! तज्जालकाभ्यणे मदीया भूरस्ति, तेन तस्मिन् जालके शशिका वसतीत्यहं वेद्मि, न च तत्र शशको वसति, न चेत्तामानय यथा तन्निर्णयः क्रियते। इत्युक्तः स व्याधस्तत्पत्नी विमुच्य श्याममुखः स्वस्थानं ययौ। अथ भरडोऽपि स्वस्त्रिया समं तामक्कां मातरमिव वित्तवसनादिना सत्कृत्य स्वं गृहं जगाम ॥ इति बुद्धिविषये वृद्धाकथा ॥ १३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org