________________
१५८
श्री कथारत्नाकरे
श्री हेमविजयरचिते
॥ १३३ ॥ स्वार्थे लुब्धा विरुद्धमपि कृत्यं कुर्वन्तीत्यर्थे मधुमथननृपकथा ॥ स्वार्थाऽभिभूता हि मृषावादिनः, यतः -
वणिक् पण्याङ्गना दस्यु - द्यूतकृत्पारदारिकः । स्वार्थसाधक-निद्रालू सप्ताऽसत्यस्य मन्दिरम् ॥ १ ॥
तेन स्वार्थलालसा अवाच्यं वदन्ति, अकृत्यं कुर्वन्ति, अध्येयं ध्यायन्ति च । यतः - धात्रीनरेशमहिषीसचिवा विवस्त्रा, भाण्डेन सार्धमगमन् पिहिताक्षिमार्गाः । स्वर्लोकलब्धितरलास्तदहो निजार्थ-व्यग्राः सृजन्ति मनुजाः सुधियोऽप्यवश्यम् ॥ २ ॥ तथाहि - मथुरायां पुर्यां मधुमथनस्य भूपस्य वसुमती राज्ञी, धीधनो मन्त्री यशोदा च धात्री । तत्रैव राजबहुमानपात्रं जगद्वञ्चको भीमो नाम भाण्डोऽन्यदा यदि मां वञ्चयसि तदाहं तव लक्षप्रसादं करोमीति राज्ञा भणितो मौनवान् गृहं ययौ । एकदा मान्द्येन भीमो मृत इति पूर्वसङ्केतितास्तद्ज्ञातिजास्तत्पुत्तलकं चितायां दहन्ति स्म । हा ! गुणपात्रं भीमो मृत इति भूपेन खेदश्चक्रे । अथ कियत्सु दिनेषु गतेषु भूमिगृहान्निर्गत्य चर्मनिर्मितभुजगाभरणभूषितः स्वच्छाभ्रककृततृतीयनेत्रः त्रिशूलशालिपाणिपुटः प्रपञ्चितविपञ्चिकः कामोद्बद्धजटाजूटमुकुटः श्यामकम्बलरचितगजचर्मविभ्रमः प्रभूतभस्माभ्यक्तशरीरयष्टिः कपालमालामण्डितकण्ठपीठ एकशृङ्गवृषभारूढः सर्वथा विहितमहादेववेषः स भीमो निशीथे शिवभक्ताया भूपधात्र्या गृहमागात् । सापि साक्षान्महेशमालोक्याऽऽत्मानं धन्यं मन्यमानाऽऽसनादिना भक्तिं विधाय प्राञ्जलिः पुरः स्थिता तमवोचत् । हे भगवन् ! परमेश्वर ! तव दर्शनेनाहमद्य कृतार्थाभूवं किञ्च प्रतिदिनमागमनेन स्वदासी पवित्रीकरणीयाहमिति भणितः सोऽनिशं तदोकसि गमनं कुर्वन्नेकदा पुनस्तयाऽभाणि हे नाथ ! मामनाथां जीवन्तीमेव दिवं नयेति तया भणिते सप्तमेऽहनि सुरेन्द्रमापृच्छ्य त्वां दिवं नेष्यामीति भणित्वा गते तस्मिन् सर्वोऽपि रात्रिवृत्तान्तस्तया नृपाग्रे कथितः । अथ राजादिष्टया तया पुनरागताय तस्मै राजापि जीवन्नेव दिवमायियासुरस्तीति निवेदिते तथैवाभिधाय गते तस्मिंस्तद् ज्ञात्वा राज्ञापि सर्वं राज्ञ्यै ज्ञापितं, राजावद्राज्ञीमन्त्रिणावपि दिवं गन्तुमुत्कण्ठितौ तया समेतस्य तस्य निवेदितौ । अथ बाढाग्रहेण सोऽपि तथैव सङ्केतं दत्त्वाऽन्यत्र गत्वा सङ्केतदिने चागत्य तां भूपधात्रीमदो जगौ । हे यशोदे ! भवती राजा राज्ञी मन्त्री च सर्वेऽप्यमी वस्त्ररहिताः सप्तपुटवस्त्रबाढबद्धनयना मया सममायान्तु यथा युष्मानहं सुरलोकं नयामीति तेऽपि स्वर्लोकलब्धिलुब्धास्तथैव भूत्वा तद्वृषभपुच्छलग्ना निशीथे तत्पृष्ठत एव गृहतो निर्गताः । यामिनीयामद्वयं यावत्तान् सर्वानपि ततः सकलेऽपि पुरे भ्रामयित्वा प्रभाते पुराद्बहिस्तटाकपालीमधिरुह्य च स स्माह, यूयमिह स्वर्गद्वारे तिष्ठत, सुरेन्द्रस्याज्ञया सर्वानपि युष्मान् स्वर्गे प्रवेशयिष्यामीति भणित्वा स स्वगृहं गतः । प्रभाते तान् सर्वांस्तथावस्थितान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.