________________
तरङ्ग ६/ कथा १३०/१३२
१५७ विप्रीषु स्वस्वनियमान् पालयन्तीषु सतीषु सा वैष्णवी रात्रौ रहसि कुल्लरिमोदकमत्ति स्म। प्रभाते च यथा सर्वा अप्यन्याः स्वस्वनियमान् विष्णुमूर्तेः पुरस्तात्स्मारयन्ति, तथा सापि स्वं नियमं स्मारयति । एवं चाऽनिशं जायमाने तद्वचनश्रवणाज्जातेा सा विष्णुमूर्तिस्तां वैष्णवीमेवमाह- हे पापिनि ! हे मृषाभाषिणि ! त्वां धिक् ।
___ कथमहं मृषाभाषिणीति तयोक्ते विष्णुरभाणीत्, नक्तं कुल्लरिकामश्नासि प्रभाते चाहमुपोषितास्मीति मत्पुरो वदसीति मृषाभाषिणी भवती। अथ सावदत्, हे मुरलीमनोहर! हे पुरुषोत्तम ! यादृशाः स्वामिनस्तादृशैः सेवकैर्भाव्यमिति नीतिः, तेन यादृशस्त्वं मृषावादी तादृगहमपि मृषावादिनीति को मम दोषः? कथमहं मृषावादीत्यभिहिते सा स्माह, चतुरोऽपि मासानहं सुप्तोऽस्मीति लोकान्तः ख्यातिं धत्से, परं नक्तं ममौकसि समेत्य मच्चरित्रं पश्यसीति त्वं मृषाभाषीति सत्ये प्रत्युत्तरे दत्ते तुष्टो विष्णुस्तस्यै महाफलं साक्षात्स्वदर्शनं दत्त्वा तिरोदधे ॥ इति सत्यप्रत्युत्तरे कुपितादपि फलमित्यर्थे वैष्णवीब्राह्मणीकथा ॥ १३१ ॥
॥ १३२ ॥ मतिविषये सरणसुवर्णकारकथा ॥ बुद्धिमान् स्वं विषममपि कार्यं साधयति, यतः
कार्यं किं किं न कुर्वन्ति, दुःसाध्यमपि धीधनाः ।
हस्तिकृत्स्वर्णकृत्स्तम्भा-दुत्ततार धियां निधिः ॥ १ ॥ तथाहि- वसुदत्तपुरे देवराजो राजा, तत्र सुवर्णकारकलाकलापशरणं सरणो नाम स्वर्णकारः, तस्य च मतिकौशलं विलोक्य लोकैर्मतिचन्द्र इत्यपरं निर्मितं नाम निशम्य राज्ञा तत्परीक्षायै तत्पार्श्वे शतभारकनकमयः करी कारितः । सकलकलाकुशलेन तेनापि नृपदत्तसुवर्णचतुर्थांऽशेनाऽन्तःशुषिरः सीसकेनाऽन्तर्भूतः करी कृतो दत्तश्च राज्ञः । स्वदत्तस्वर्णभारादधिकं तं कनककरिणं विलोक्य विस्मितेन राज्ञादिष्टा मन्त्रिप्रिया तद्गृहे गत्वा मैत्रीमिषेण तत्प्रियातो ज्ञाततत्कपटा द्विरदोदरनिहितसीसकादिस्वरूपं राज्ञे जगौ । तद् ज्ञात्वा राज्ञा कृततापेन करिजठरदम्भं विलोक्य पुनस्तेन तस्यातिकौशलविलोकनाय त्रिंशत्हस्तप्रमाणे दारुदण्डे शिरोनिहितदशहस्तपृथुलफलके कथमितः समुत्तरतीति रात्रौ सोऽध्यारोहितः । मिथो ग्रन्थिदानसन्धितस्वकेशैस्तेन दवरकोऽधो मुक्तः, तेन दवरकेण च स्वस्त्रिया दत्तां दृढां रज्जुमादाय तद्रज्जुप्रयोगेण च ततो दण्डादुत्तीर्य क्वाऽपि गते तस्मिन् राजा तन्मतिमहिमानमुद्दिश्य चमच्चक्रे । पुनर्मिलितं तं मतिमतां मुख्यं नगरसुवर्णकारमहत्तरं राजा चकार ॥ इति मतिविषये सरणसुवर्णकारकथा ॥१३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org