________________
१५६
अपि च
श्री कथारत्नाकरे
श्री हेमविजयरचिते
विप्रस्य मोहमूढात्मा, मृताया दुहितुः कृते । अलङ्कारान् ददौ वृद्धा, धिग्मोहं द्रोहकारिणम् ॥ ३ ॥
तथाहि- कमलपुरे पुरे गोविन्दविप्रस्य प्रियङ्गुः प्रणयिनी, तत्कुक्षिप्रभवा यमुना सुता, अन्यदा चिन्तामणिरिव सुरतेव च प्राणेभ्योऽप्यतिप्रेयसी सा पितृभ्यां मणिपुरवासि श्रीधरविप्रसुत श्रीपतेः परिणायिता । लघीयस्येव दैवयोगेन सा परासुरभूत् ।
सुताशोकमनसि भृशं च कुर्वाणा प्रियङ्गुरन्यदान्यदैकेन विश्ववञ्चनाचञ्चचञ्चनाम्ना धूर्तेन कुतः समेतोऽसीति मोहमूढया तया पृष्टेनेति जगदे, हे प्रियङ्गो ! स्वर्गादहमिहागमं, हे पुत्र ! तत्र यमुना मन्नन्दना किं करोति ? किमत्ति ? सुखिनी दुःखिनी वेति कथय, इत्यभिहितः सोऽवदत् अस्ति स्वस्ति यमुनायास्ते तनयायाः, स्वपित्रोर्गोविन्दप्रियङ्गुनाम्नोः क्षेमाऽऽलापपूर्वं समाधिर्मन्मुखेन पृष्टास्ति, अन्येषां स्वजनानां च नामग्राहं कुशलं पृष्टमस्ति । परं स्वर्गे प्रदीपने लग्ने तद्गृहान्तःस्थं सर्वं वस्त्राऽऽभरणाद्यमज्वलत् । तेन वेषाऽलङ्काररहिता नाहं राजामीति च मन्मुखेन सा तवाऽज्ञापयत् । इत्युक्ते मोहार्तया तया दत्तं सर्वमादाय गते तस्मिन् गृहागतो गोविन्दोऽपि तं वृत्तान्तमाकर्ण्य करभाऽऽरूढस्तत्पृष्टे धावितः ।
तमायान्तं दृष्ट्वा महति मार्गवटेऽधिरूढे तस्मिन् धूर्ते वटेस्कन्धे भूत्वा सोऽपि वटेऽधिरूढः तदा च स धूर्तो वटशाखयोत्तीर्य करभं चाधिरुह्य द्रुतमचलत् । करभारूढं गच्छन्तं तं विलोक्योभयभ्रष्टो गोविन्दो बाहुयुगमूद्धर्वीकृत्य - हे भद्र ! करभोऽपि यमुनायै देय इत्यभिधाय मनस्यतीवखिन्नो ववले । धूर्तोऽपि तत्सर्वं गृहीत्वा गृहे गतः ॥ इति मोहकरणेऽनर्थ इत्यर्थे प्रियङ्गुविप्रप्रिया-कथा ॥ १३० ॥
Jain Education International
॥ १३१ ॥ सत्यप्रत्युत्तरे कुपितादपि फलमित्यर्थे वैष्णवीब्राह्मणीकथा ॥ तात्कालिकधिया यः प्रश्नोत्तरं दत्ते स श्रियं लभते, यतः -
श्रियं प्रतिवचश्चञ्चः प्राप्नोति कुपितादपि ।
वैष्णवी विष्णुतः प्राप, सद्यो दत्तोत्तरा फलम् ॥ १ ॥
तथाहि - गोविन्दपुरनगरं, तत्र च ग्रामाद्बहिर्मुरलीमनोहरानाम्नी साऽधिष्ठायिका विष्णुमूर्तिः, तत्र चैकदा देवशयनैकादश्या देवोत्थानैकादशीं यावत्काप्येकाशनं, काऽपि फलाऽशनं, कापि सिरोप्तधान्यनिराकरणं, कापि ब्रह्मव्रतं, कापि भूमिशयनं, कापि रात्रिभोजनप्रत्याख्यानं, कापि दुग्धाऽऽहारकरणं चेति नियमानङ्गीकुर्वन्तीषु बह्वीषु ब्राह्मणीष्वेका बुद्धिमती वैष्णवीनामविप्री हे विष्णो! तव शयनादुत्थानं यावन्नाऽहं भोक्ष्ये एवं प्राञ्जलिरजल्पत् । स्वं स्वं स्थानं गत्वाऽन्यासु १. PDI सुताशोकं मनिस भृशं - मु. ॥
For Private & Personal Use Only
www.jainelibrary.org.