________________
तरङ्ग ६.कथा १२७/१२८
१५३ सोऽपि मध्यदेशे कालपीनगरे गत्वा सितोपलामय्यौ कङ्कलोहमयमुष्टिजटिते द्वे क्षुरिके स्वकौशलेन निर्ममे। लोहारिके इव ते अपि क्षुरिके मृदुललोहादिसर्ववस्तुच्छेदनसमर्थे समादाय तैः सादिभिर्वृतः स षण्मासान्ते मध्यदेशाधीशमन्त्री सिद्धराजस्याऽर्थे प्राभृतमादायागतोऽस्तीति ख्यापयन् पत्तने प्रविष्टः । अथ पूर्वसङ्केतिते तस्मिन् दिने पर्षदि स्थिते भूपे ते योगिन्यावपि तत्रागत्य बहवो वासरा जातास्तेनाद्यास्मद्वार्तानिर्णयं विधेहीति राजानं जल्पतः स्म।
स धरणोऽपि तदैव ते क्षुरिके पुरो विमुच्य प्रणम्य च क्षुरिकास्वरूपगर्भितलेखं राजकरे दत्त्वा प्राञ्जलिस्तस्थौ । भवदुक्तनिर्णयमद्य विदधदस्मीति तयोर्योगिन्योरभिधाय सविस्मयं सर्वेषु सभ्येषु पश्यत्सु राजा ते द्वे अपि क्षुरिके मुष्टिस्कन्धौ यावदत्ति तावत्तयोद्वे अपि मुष्टी धरणेन राजपुर:स्थितपयःपात्रान्तः क्षिप्ते, तल्लनशर्करालेशे च जलान्तर्गते तन्मुष्टिद्वयं योगिन्योर्दत्वैतद्भक्षणं विधीयतां यदि भवन्त्यौ योगिन्यौ स्तः, इति वदन्तं तं ते ऊचतुः, कङ्कलोहभक्षणात् सिद्धादधिक: सिद्धोऽसौ राजा, येनाऽऽवयोर्मुदुलोहाऽदने शक्तिवर्तते, परं च नाऽस्मिन्नित्यभिधाय राजानं च प्रणम्य ते योगिन्यौ स्वाऽऽस्पदं जग्मतुः, धरणं च नगरमुख्यं विधाय राजापि राज्यमपालयत्
॥ इति दम्भनिर्माणे धरणाऽऽख्यकान्दविककथा ॥१२७ ॥ - ॥१२८ ॥ कपटविजृम्भितं ज्ञातुं न कोयलमित्यर्थे कललकोलिककथा ॥ अस्मिन्नेवार्थे द्वितीया कथा
अतिगुप्तस्य दम्भस्य । ब्रह्माऽप्यन्तं न गच्छति।
कोलिको विष्णुरूपेण । भेजे राजसुतां यथा ॥ १ ॥ तथाहि- मकरन्दपुरे पुरे शक्रस्य राज्ञः कनकमञ्जरी पुत्री, एकदा हेशयात्रायां यान्ती स्मररमणीमिव सर्वाऽवयवाऽनवद्यां तां विलोक्य पथि स्थितः कललो नाम कोलिकः स्वमित्रं कुशलं नाम सूत्रधारमवादीत्- हे मित्र ! यात्रां गतेन मयाऽद्य कनकमञ्जरी भूपसुता ददृशे, तेन तत्सङ्ग विना नाऽहं प्राणान् धर्तुमलम्, अतस्तदुपायं घटयेत्यभिहितः सोऽवदत्, मन्निर्मितं कीलिकासञ्चारचारिणं गरुडपक्षिणमारुह्य विष्णुवेषेण तस्याः प्रासादे गत्वा विष्णुरहं तव रूपमोहितोऽत्र समागामित्युदीर्य गान्धर्वविधिना च तां परिणीय तया समं सुखमनुभविष्यसि, नाऽन्यथेति। अथ तत्कृतगरुडाऽऽरूढः करधृतगदाचक्रशङ्खशाङ्गः परिहितपीताम्बरः श्रीवत्सलाञ्छनः कज्जलश्यामलः स निशीथे गवाक्षेण तन्मन्दिरमभ्यगात् । साऽपि साक्षाद्विष्णुं तमागतं विलोक्य प्रणम्य प्राऽञ्जलिः स्थितेत्यस्तवीत्
गोपाङ्गनावदनचुम्बनलालसाय, भक्तोद्धृतौ प्रतिकलं विगताऽऽलसाय । देवेन्द्रचन्द्रभुजगेन्द्रजनोत्तमाय, भूयान्नमो भगवते पुरुषोत्तमाय ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org