________________
१५२
श्री कथारत्नाकरे
॥ ८ ॥ अथ षष्ठस्तरङ्गः ॥
॥ १२७ ॥ दम्भनिर्माणे धरणकान्दविककथा ॥
दम्भं हि ज्ञातुं न विधाताप्यलं, यतः -
दम्भसंरम्भिणां दम्भं, गर्जितं च पयोमुचाम्।
न क्वापि भवति ज्ञातुं चतुरश्चतुराननः ॥ १ ॥
Jain Education International
अपि च
अहो अहो दम्भविजृम्भितं यत्प्रभावतः सिद्धिमुपैत्यसाध्यम् । सितोपलाया क्षुरिके जघास, लोहच्छलाद्यज्जयसिंहभूपः ॥ २ ॥ तथाहि - श्रीपत्तने नगरे सिद्धराजजयसिंहदेवे राज्ञि सभायां स्थितेऽन्यदा शङ्खकुण्डलकङ्कणकेयूरकोटीरहारहारिण्यौ सिद्धिबुद्धिसंज्ञे द्वे योगिन्यौ पौरैः सविस्मयं वीक्ष्यमाणैः समं राजसभामेत्य राज्ञ इत्याशीर्वादं ददतुः -
श्रीकर्णभूपाल - कुलाकाशनभोमणे ! ।
राजन् चिरं जीव चिरं नन्द चिरं पालय मेदिनीम् ॥ १ ॥
श्री हेमविजयरचिते
आगमनकारणं पृष्टे च ते राजानमिति वदतः स्म । सपादलक्षशैले सिद्धनाथनामाऽस्मद्गुरुर्योगिपुङ्गवः सिद्धराज इति त्वन्नामाकर्ण्य मयि सिद्धनाथे सति कोऽसौ सिद्धराज इति कुपितः, यो लोहमत्ति स सिद्धराज इति पत्तने गत्वा सिद्धराजभूपं वदतमिति शिक्षां दत्त्वा स स्वक्षुल्लिके आवामिह प्राहिणोत् । ततो हे राजन् ! यदि स्वख्यातिरक्षणे ते वाञ्छा, तदा लोहमये कटके इमे त्वं भक्षय, न चेत्सिद्धराज इति ख्यातिं जहि । इति तदुक्तमाकर्ण्य कथं करिष्यामीत्यन्तः खेदं वहन् भवदुक्तनिर्णयमुषसि विधास्यामीत्यभिधाय भूपोऽन्तःपुरमलञ्चक्रे, योगिन्यावपि राजाऽऽदिष्टं स्थानं गते । राजापि तच्चिन्तातुरो निशि विहितश्यामवेषः पौरचर्यां विलोकयन् धरणाख्यस्य कान्दविकस्य द्वारे तस्थौ । तदा च योगिनीभ्यामभिहितां विस्मयकरीं वार्तां स्त्रीपुरः कथयन् स कान्दविकस्तयाऽभाणि, हे स्वामिन्नियमात्मस्वामिभूस्वामिनश्चिन्ता कथं यातीति तयोक्तेऽहमत्रार्थेऽलमस्मीति वदति तस्मिन् कपाटमुद्घाट्य मुदितो मेदिनीशस्तद्गृहाऽन्तः प्राविशत् ।
कान्दविकोऽपि राजानमुपलक्ष्य सत्कृत्य च प्राञ्जलिः पुरः स्थितो राज्ञोचे - हे भद्र ! मत्ख्यातिरक्षणोपायं विधेहीत्यभिहितः सोऽवोचत् — हे देव ! सादिनां पञ्चशतं पञ्चाशत्सहस्रसुवर्णटङ्काश्च मम दत्त्वा षण्मासं यावदन्तःपुरे स्थेयं, तयोश्च दर्शनं न देयं, पश्चात्सर्वं भव्यं भवितेति वदतस्तस्य राज्ञा तदेव सर्वमदायि, स्वयं च मान्द्यमिषेणान्तः पुरे तस्थौ । अथ
For Private & Personal Use Only
www.jainelibrary.org.