________________
१५१ प्रातः पश्यत्सु लोकेषु स मृतः श्वा ततः समुत्थाय पतितस्य तस्य चौरस्य मुखान्तरुपविश्य तत्रैव पतितः, अहो मृतोऽप्यसौ श्वा कथमुत्थितः? कथं चौरमुखे च पतितः? इति सविस्मयं चिन्तयत्सु लोकेषु तत्रैव स कुन्तलः समेतः, स्वोपलक्षितं मृतं तं चौरं, तस्य मुखे च पतितं मृतं श्वानं विलोक्य किमिदमहो इति कुन्तले ध्यायति स्वामिकृतज्ञत्वजातेन शुभध्यानेन मृत्वा व्यन्तरीभूयः स श्वजीवो देवोऽम्बरस्थोऽस्य चौरस्याऽऽत्मनश्च कथां प्रतिपाद्य स्वशरीरं चन्दनैरदहत्, चौरशरीरं विडम्ब्य कुन्तलं च पूजयित्वा स देवः स्वस्थानं गतः । कुन्तलोऽपि पुत्रोक्तं चारणोक्तं च मनस्यवधार्य स्थाने कृतोपकारः सुगतिमगात् ॥ इति शुनोऽपि नीचो निन्द्य इत्यर्थे श्वानचौरकथा ॥ १२५ ॥
॥ १२६ ॥ मौनं हितमित्यर्थे तापसत्रयकथा ॥ केषाञ्चिन्मौनं हि हितार्थं, यतः
स्वायत्तमेकान्तहितं विधात्रा, विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे, विभूषणं मौनमपण्डितानाम् ॥ १ ॥ क्वाऽपि पण्डितानामपि मौनं श्रेयसे, यतः
मुञ्च मुञ्च पतत्येको मा मुञ्च पतितो यदि।
उभौ तौ पतितौ दृष्ट्वा मौनं सर्वार्थसाधनम् ॥ २ ॥ तथाहि- विष्णुपुरे पुरे शिवशर्म-देवशर्म-हरिशर्मनामानस्त्रयस्तापसा दुस्तपं तपस्तपन्ते स्म। तेषां त्रयाणामपि तपःप्रभावात्परिधानपटा नभस्यातपे तिष्ठन्तीति प्रसिद्धिः । एकदा स्नानार्थं सरसि गतास्ते त्रयोऽपि स्वस्वपरिधानपटाश्च नभस्यातपे धृता यावत्तिष्ठन्ति तावत्तत्र सरस्येकेन बकेनाऽऽदत्तं मत्स्यमालोक्य हा ! अकार्यमिदं यदनेन पापिना निरपराधोऽयं मत्स्यो गृहीत इति मुञ्च मुञ्चेति वदतो मत्स्ये समुत्पन्नकृपस्य बके च निर्दयस्य शिवशर्मणस्तस्यैकः पटो गगनादधस्तादपतत् । पतितं च पटं प्रेक्ष्य मा मुञ्च मुञ्चेति ब्रुवाणस्य क्षुधितोऽसौ वराको मरिष्यतीति तस्मिन् बके जातकारुण्यस्य मत्स्ये च निष्कृपस्य देवशर्मणोऽपि पटो द्वितीयस्तदैवाऽपतत् । इति तौ द्वावपि पतितौ पटौ विलोक्य बके मत्स्ये च निष्करुणत्वमेव पटपतननिदानमिति मौनमुपेयुषस्तस्य हरिशर्मणस्तृतीयः पटो नभस्येव तस्थिवान् ॥ इति मौनं हितमित्यर्थे तापसत्रयकथा ॥ १२६ ॥ इति पं. श्रीकमलविजयगणिशिष्य पं. श्रीहेमविजयगणिविरचिते श्रीकथारत्नाकरे पञ्चमस्तरङ्गः समाप्त:
॥श्रीरस्तु ॥ १. DI °धकं- AHP ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org