________________
१५०
श्री कथारत्नाकरे
श्री हेमविजयरचिते इति मत्वा साऽवादीत्- हे नाथ ! यथाऽऽत्मनां युगपत्पदद्वयं निष्पनीपद्यते तथा त्वदीयं याचस्वेति स्त्रीप्रधानः स मूर्खमुख्यो वने गत्वा यक्षं तथैव याचितवान्। एवं भूयादिति प्रतिपद्य तिरोहिते यक्षे स यथा पुरस्तात्तथा पृष्टे बभूव, चतुष्करश्चतुश्चरणो द्विमुखश्चैतादृग्रूपं पुरे प्रविशन्तं तं विलोक्याऽहो ! पुरे कोऽप्युपद्रवकारी पिशाचः प्रविशतीति क्रुद्धैर्लोकः सम्भूय यष्टिमुष्टिपादप्रहारैर्निहतः स प्राप स्त्रीबुद्धिकरणतो जातं मरणलक्षणं फलम् ॥ इति स्त्रीमतिकरणेऽनर्थ एवेत्यर्थे मन्थरकोलिककथा ॥१२४ ॥
॥ १२५ ॥ शुनोऽपि नीचो निन्द्य इत्यर्थे श्वान-चौरकथा ॥ उपकृतोऽपि दुर्जनः शुनोऽपि तुलां नैति, यतः
अशनमात्रकृतज्ञतया गुरो-र्न पिशुनोऽपि शुनो लभते तुलाम्।
अपि बहूपकृते सखिता खले, न खलु खेलति खे लतिका यथा ॥ १ ॥ अपि च
श्वा कृतज्ञतुलां याति, याति तां नैव दुर्जनः ।
वैद्योपचरितौ श्वान-चौराविह निदर्शनम् ॥ २ ॥ तथाहि- शङ्करनामग्रामे कुन्तलो नाम वैद्यः, स च सर्वत्रोपकृतिकृतभना एकदा कन्धरेण पुत्रेणाऽभाणि, हे तात! यादृशे स्थाने उपकृतिर्विधीयते तादृशमेव फलं लभ्यते, यतः
वरस्यउ वरस्यउ अम्बुहर, वरसीअडां फल जोइ ।
धत्तूरइ विस नीपजे, इक्खु अमीअरस होइ ॥ ३ ॥ पुत्रेणेति कथिते सोऽकथयत्- हे पुत्र ! धर्मशास्त्रे परोपकारादपरो धर्मो नास्ति, यतः
श्रीकार्द्धन प्रवक्ष्यामि, यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय, पापाय परपीडनम् ॥ ४ ॥ इत्यभिधाय सर्वत्रोपकारतयैव तस्थुषस्तस्यैकदैकेन भट्टेनाऽयं दोधकोऽभाणि
कहि किम कुक्कर-समवडिइ, दुजण जण तोलाय ।
इक पाल्यउ धन जालवइ, इक पाल्यउ लिइ जाइ ॥ ५ ॥ तथापि योग्याऽयोग्ययोरप्युपकारधीस्तेन नाऽमोचि । अथैकदा रोगाऽऽर्तस्य शुनः प्रतिचर्यां सृजतस्तस्यौकस्येको रोगातुरो दासीसुतो नीचः समेतः, पुत्रादिभिर्निषिद्धोऽपि कुन्तलस्तमौषधपथ्याऽऽदिना प्रतिचरति स्म । जातपाटवः स दासीसुतस्तद्वित्तादि विलोक्याऽन्यत्र गत्वा च निश्येकदा चौर्यार्थं तद्नेहमागतः, तत्र स्थितो नीरोगः स श्वा तं विलोक्य तं प्रति धावितस्तेन बाणेन हतः, नश्यन् स चौरो निशि सर्पण दष्ट: पुराबहिः पतितो मृतश्च, बाणाऽऽहतः स श्वाऽपि मृतः । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.