________________
१४९
तरङ्ग ५/ कथा १२१/१२४ चाऽतुलभूषणभूषितानां विभववतीनामन्यासां सौभाग्यवतीनां गौरवमात्मनश्च भृशं लाघवं निरीक्ष्य धिग्धनमिति ध्यायन्ती भ्रात्राप्यमानितैव पतिगृहं गता।
अन्यदा च दैववशाद्गते दौर्गत्ये सा तूत्तरोत्तरीयदुकूलधरा कनककङ्कणकलितकरा ताम्बूलपूरितवदना सर्वाऽवयवलिप्तचन्दना नूपुरमण्डितचरणा यथौचित्यरचितमणिमौक्तिकाभरणा कुसुमपूरपूरितशिरोजा दुकूलकञ्चुकगाढबद्धोरोजा तथैवाऽपरभ्रातृव्यविवाहे समागता सहोदरेण भोजनाऽऽदिना बहुमानिता चैकं दोधकमभणत्
जिमउं नागला ! खीटलां!, जिम घडि! जिमरे चीर!।
इम आदर तुम्हनइं करइ, एह मारो वीर ॥ १ ॥ इति भूयो भूयो भणन्ती सा सुखभक्षिका-व्यञ्जन-कूराऽऽदिकवलान् कुण्डलकङ्कणादिभूषणानामुपरि मुमोच । इति विपरीतं विदधती सा परिजनेन पृष्टा सर्वं पूर्वमाधुनिकं च वृत्तान्तं जगौ । तत् श्रुत्वा लोकैद्घता निन्दितः, सा च संस्तुता पतिगृहमगात् ॥ इति धने सत्येव निजानां प्रेमेत्यर्थे चन्दनश्रीकथा ॥१२३ ॥
॥ १२४ ॥ स्त्रीमतिकरणेऽनर्थ एवेत्यर्थे भन्थरकोलिककथा॥ मित्राऽऽदिषु सत्स्वपि कारवो हि स्त्रीप्रधानाः, यतः
मन्त्रिप्रधाना राजानो, धीप्रधानाश्च मन्त्रिणः ।
वित्तप्रधाना वणिजः, स्त्रीप्रधानाश्च कारवः ॥ १ ॥ स्त्रीधिया प्रवृत्तिप्रवृत्तानां तेषामेवाऽनर्थः, यत:
यस्य नास्ति स्वयं बुद्धि-र्मित्राणां न करोति यः।
स स्वयं निधनं याति, यथा मन्थरकोलिकः ॥ २ ॥ तथाहि- धणपल्लीग्रामे मन्थरो नाम कोलिकः, स चैकदा पत्नीप्रेरितो निशितं कुठारमादायेन्धनार्थं वने पर्यटन्नन्यकाष्ठमप्राप्नुवन् वनस्थस्य शङ्करस्य यक्षस्य दारुमयीं मूर्ति खण्डयितुमुद्यतो यक्षेणाऽभाणि- भो भद्र ! मां मा विखण्डय याचस्व च यथेप्सितं वरमित्युक्तो ग्रामे गत्वाऽऽगत्य च वरं वरिष्यामीत्यभिधाय स निर्बुद्धिधुरीणः पुरे समेतो मित्राणां पुरो यक्षवृत्तान्तं जगौ, मणिसुवर्णादि याचस्वेति तैरुक्तेऽपि स स्वप्रियामप्राक्षीत् । धनादिभिः समृद्धोऽसौ प्रथमं मामेव त्यक्ष्यति, यतः--
प्रवर्धमानः पुरुष-स्त्रयाणामुपघातकः।।
पूर्वोपार्जितमित्रस्य, कलत्रस्य च वेश्मनः ॥ ३ ॥ १. मु.-मध्ये एतत्स्थाने अन्य श्रोकोऽस्ति यथा - धन छे तुमने माहरां। हे आभूषण चीर। आदर तो तुमनें करे। एहिज मारो वीर ॥ १ ॥ २. सत्स्वेव - PD ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org