SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४८ श्री कथारत्नाकरे श्री हेमविजयरचिते श्वापदाऽधमेन शृगालेन वयं विगोपिता वञ्चिताश्चेति क्रुद्धस्तैः स हतः, प्राप चाऽऽत्मवर्गपरित्यागजं मरणरूपं फलम् ॥ इत्यात्मवर्गपरित्यागेऽनर्था इत्यर्थे घोराकारशृगालकथा ॥१२१ ॥ ॥ १२२ ॥ सर्वसंग्रहेऽपि संपत्तिरित्यर्थे सुरदत्त श्रेष्ठिकथा ॥ कालेऽनुचितस्यापि वस्तुनः संग्रहात्फललब्धिः, यत: कृतो हि सङ्ग्रहो लोके, काले स्यात्फलदायकः। मृतसर्पसङ्ग्रहेण, लेभे हारं वणिक् पुरा ॥ १ ॥ तथाहि- वर्धनपुरे सुरदत्तः श्रेष्ठी, यद्वस्तु येनाऽऽनीयते तद्वस्तु भरत्ययमिति तस्य प्रसिद्धिः सर्वत्र प्रथिता। एकदा तत्परीक्षार्थमेकेन धूर्तेन मृतः सर्पस्तद्धटे समानीतः, तेनाऽपि यथोचितेन मूल्येनाऽऽदाय निवोपरि मोचितः, तदैव स्नातुं स्थिताया भूपप्रियायाः कनकावलिहारं भुजगधिया गृहीत्वा नभसि भ्रमन्त्याः शकुनिकाया मुखात्स हारस्तन्निवोपरि पतितः, सा शकुनिकाऽपि हारस्थाने तं मृतमहिमादाय नभस्युड्डीता। प्रातरुत्थितः स श्रेष्ठी मृतसर्पस्थाने तं महामूल्यं हारं प्राप्य श्रीमानासीत् ॥ इति सर्वसङ्ग्रहेऽपि सम्पत्तिरित्यर्थे सुरदत्तश्रेष्ठिकथा ॥ १२२ ॥ ॥ १२३ ॥ धने सत्येव स्वजनानां प्रेमेत्यर्थे चन्दन श्रीकथा ॥ श्रियो दृशि सर्वं सुखायते, यतः तावत्पञ्चमकाकलिं कलयितुं कण्ठः समुत्कण्ठते। तावद्वाक्यरसायनं सुखयति श्रोत्रे कवीनां लुठत् । तावन्मुग्धमृगीदृशीस्मितरसश्चेतः समाकर्षते। लक्ष्मीर्यावदवेक्षते क्षणमपि प्रेमोर्मिणा चक्षुषा ॥ १ ॥ तेन सम्बन्धिनोऽपि सम्पत्तावेव निजं गौरवाऽऽस्पदं सृजन्ति, यतः अस्तु धिग् विभवमुज्झति यद्वशः, सौहृदं प्रणयवानपि सत्वरम् । यत्स्वसारमपि बन्धुरमानय-नाधनां धनवतीमानर्च यत् ॥ २ ॥ तथाहि-मकरावासे नगरे धरणस्य श्रेष्ठिनश्चन्दनश्रीः स्वसा, सा च पतिगृहे दौःस्थ्ये समुपस्थिते वस्त्राऽऽभरणादिवेषाऽऽडम्बररहिता स्वसोदरस्य सुतविवाहे पितृगृहमागता, तत्र १. सर्व संग्रह कर्त्तव्यः । कः काले फलदायक: AHD । २. AD 1 श्रिया दृशा सर्वं सुखायते-H। श्रियां दृष्टायां सत्यां सर्वं सुखायते-मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy