________________
१४७
तरङ्ग ५/ कथा ११९/१२१ मिलितः, भोजनेन भृशं तेन तोषितः स योगी तत्कालमुप्तानि प्ररोहन्ति फलन्ति च यानि चिर्भटीबीजानि तान्यस्मै ददौ। तान्यादाय पुरं प्रविशन् मातुर्मरणमाकाऽहो तस्य धी: ! सर्वं सुन्दरमभूदिति ध्यायन् मातुः शोकेन रुदंश्च गृहमागतः ।
तन्मतिकरणत: शुभं फलं लब्धमथ तदकरणे किं स्यादिति तेन निशि स्वस्त्रीपुरश्चिर्भटीबीजप्रभावोऽभिहितः, अथ तत्स्वैरिणीस्त्रीतो ज्ञातचिर्भटीबीजस्वरूपो ग्रामाऽधिपस्तामादातुमनास्तेन विप्रेणेति पणं चक्रे, यदीमानि बीजानि प्ररोहन्ति, तदाऽहं तुभ्यं यथेच्छं वाञ्छितं दास्ये, न चेत्तदा द्वाभ्यां कराभ्यां त्वद्गृहस्थं वस्तु यत्किञ्चिदादावेवादास्ये तन्मदीयमेव, इत्यभिधाय तत्प्रेरितया विप्रपत्न्या तानि बीजानि भ्रष्टानि, अथ चैकदोप्तानि तानि यदा न प्ररूढानि, तदाऽद्यतः सप्तमेऽहनि मदोकसि समागत्य यथेच्छं वस्तु त्वया ग्राह्यमित्यवधिं विधाय दिग्मूढः स सुन्दरश्रेष्ठिपार्श्वे गतः, कथितवांश्च सर्वं तद्व्यतिकरं, धिया ज्ञाततत्पत्नीचरित्र: सुन्दरोऽपि तन्मन्दिरमागत्य मणिमौक्तिकादि सर्वं धनं पृथक्पृथक् बहिर्विमुच्य तत्पत्नी चोपरितनभूमिस्थां विधाय ग्रामाऽधीशमाकार्य यथेच्छं गृहाणेति कथितवान्। सोऽपि तामुपरिस्थां विलोक्य तामुत्तारयितुं द्वाभ्यां पाणिभ्यां निःश्रेणिं जग्राह। दर्शिते च सुन्दरेण पणपत्रे स श्याममुखो गृहमगात् । तस्याश्चरित्रं च तत्पुरो निवेद्य सुन्दरः स्वमन्दिरं गतः ॥ इति स्त्रीणां रहस्यकथनेऽनर्थ इत्यर्थे विशालविप्रकथा ॥१२० ॥
॥१२१ ॥ आत्मवर्गपरित्यागेऽना इत्यर्थे घोराकारशूगालकथा ॥ आत्मपरिवारपरिहारे हि क्लेश एव, यतः
निअजणथी बाहिर पड्यउ, कउण न पामे दुक्ख।
संख समुद्दह वीछड्यउ, घरि घरि मांगइ भीख ॥१॥ अपि चआत्मवर्गं परित्यज्य, परवर्गेषु ये रताः। ते नरा निधनं यान्ति, यथा राजा कुकर्दमः ॥ २ ॥
तथाहि- घोरारण्यवासी घोराकारो नाम शृगालः, स चैकदा मांसार्थी कीरपुरपरिसरे सायं भ्रमन्नेकस्मिन्महति निलीकुण्डे पतितः, कज्जलैर्घटित इव सर्वाऽवयवेषु श्यामतमः समजनि।
प्रभाते वनं गतस्तादृशः स कस्त्वमिति श्वापदैः पृष्टोऽभाषिष्ट, भोः ! श्वापदाः सुराणां शक्र इव, नक्षत्राणां चन्द्र इव, ग्रहाणां रविरिव, सर्वेषां भवतामहं स्वामीति तेनोक्तेऽभिनवघोराकारं तं विलोक्य शरभसिंहसिन्धुरशार्दूलसारङ्गादयः सर्वेऽपि वनजीवास्तं विधिवत् सिषेविरे। असौ नीच इति शृगालौघमात्मवर्गं दूरतो हित्वाऽमीभिः श्वापदैरेव परिवृतोऽन्यदा दूरादपि निशि शृगालेषु रटत्सु जातिस्वभावात्स्थातुमशक्तः स बाढमरटत्, तस्य रटितं चाऽऽकाहो पापिनानेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org