________________
१४६
श्री कथारत्नाकरे
श्री हेमविजयरचिते सर्ववेश्यास्वामिनी च चक्रे, सापि तत्र तत्कुलोचितं कर्म चक्रे, अथैकदा भुवि भ्रमन् स तत्पिता तं ग्राममागतः, सायं च तद् गृहमागत्य निशि तया सह विषयसुखमन्वभूत् । तद्रूपविनयौचित्यप्रतिपत्तितोषेण कथितादप्यधिकदानाच्चमत्कृतचित्तया तया तद्ग्रामादि पृष्टः स सर्वं स्वं स्वरूपं यथास्थितमवदत्। कश्च भवतां परिवार इति पुनरपि चकितया तया पृष्टः स स्वसुताया नामनाशादि स्वं दुःखमपि पतद्बाष्पबिन्दुरवादीत् ।।
अथ हा मया पापया महापापहेतुः पितुः संयोगो व्यधायीति मुहुर्मुहुरात्मानं निन्दन्ती बाष्पाविललोचना सा यथाजातं स्वं सर्वं व्यतिकरं तस्मै व्याकरोत् । अथ तौ द्वावपि पृथक् पृथक् वेश्यावेश्मतो निर्गतौ प्रव्रज्याऽलोचितस्वस्वदुष्कर्मविपाको सद्गतिभाजौ बभूवतुः ॥ इति दुष्टैर्दृष्टो गुणोऽप्यनर्थहेतुरित्यर्थे द्विजसुतारूपसेनाकथा ॥ ११९ ॥
॥ १२० ॥ स्त्रीणां रहस्यकथनेऽनर्थ इत्यर्थे विशालविप्रकथा ॥ हितैषिणा हि स्त्रीभिः सह सर्वथा मृषैव भाषा भाषणीया। यत:
सत्यं मित्रैर्मृषा स्त्रीभिरलीकमधुरं द्विषा।
अनुकूलञ्च सत्यञ्च वक्तव्यं स्वामिना समम् ॥ १ ॥ तेन स्त्रीणां पुरः कथितं रहस्यमनर्थमेव सूते, यतः
न गुह्यमुत्तानमन:स्थितीनां, निवेदनीयं पुरतो वधूनाम्।
विप्रः प्रियाऽग्रे कथयन्नवाप, यचिर्भटीबीजकथामनर्थम् ॥ २ ॥ तथाहि- सङ्गरे नगरे विशालस्य विप्रस्य धरणी गृहीणी, स चैकदा परदेशे गत्वा घनं धनमुपाय॑ च स्वपुरमागच्छन् पथि कुसुमपुरे सुन्दरश्रेष्ठिपार्धात्सुवर्णसहस्रव्ययेन चतस्रो बुद्धीर्जग्राह। तास्वेका पथ्येकाकिना न गन्तव्यं, द्वितीया नद्यादिघट्टे दन्तधावनादि न विधेयं, तृतीया विरुद्धमपि कृत्यं महाजनोक्तं कर्तव्यं, चतुर्थी च परदेशादागतेन बुभुक्षितेन पुरे न प्रवेष्टव्यमिति बुद्धिचतुष्टयदाने बहुवित्तप्राप्त्या तुष्टेन तेन श्रेष्ठिना स्त्रीणां रहस्यं नाऽभिधेयमिति पञ्चम्यपि बुद्धिर्दत्ता।
अथाऽऽदत्तबुद्धिचतुष्टयः स विप्रोऽप्यन्यसार्थाऽप्राप्तौ वागुरिकान्मूल्येनैकं जाहकमादाय वर्त्मनि चलन् विश्रामाऽर्थं वटस्याऽधः सुप्तः, उत्थितश्च जाहकेन मारितमहिमवलोक्याऽहो! तस्य धी: ! सर्पमरणाज्जीवता मया तस्य दत्तं सर्वं सुवर्णं लब्धमिति प्रमनाः स सरिघट्टे जलं पीत्वा पुरश्चलितः, तत्र विस्मृतं स्वधनं प्रत्यागतः प्राप, विशेषान्मुदं चाऽऽप। अग्रतश्चलनेकस्मिन् पुरे विश्रान्तः, तत्रैकमन्यमध्वन्यमहिदंशान्निशि मृतं महाजनवचनाबहिः क्षिपस्तद्ग्रन्थौ रत्नपञ्चकं स प्राप। पुनरपि पुरो गच्छतः स्वपुरपरिसरे भोक्तुं स्थितस्य तस्य पूर्वसुहृदेको योगी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.