________________
१४५
तरङ्ग ५/ कथा ११८/११९ ॥ ११९ ॥ दुष्टदृष्टो गुणोऽप्यनर्थ-हेतुरित्यर्थे-द्विजसुता रूपसेनाकथा ॥ गुणादेव हि क्वाऽप्यनर्थः, यतः--
मांसं मृगाणां दशना गजानां, मृगद्विषां चर्म फलं तरूणाम्।
अर्थो नराणां वपुरङ्गनानां, गुणाऽधिका वैरकरा भवन्ति ॥ १ ॥ तत्रापि दुष्टैदृष्टो गुणो विशेषतोऽनय, यतः
दुष्टैदृष्टो गुणोऽपि स्यात्, प्रायोऽनर्थनिबन्धनम् ।
साऽनर्थाऽजनि रूपेण, रूपसेना द्विजाऽङ्गजा ॥ २ ॥ तथाहि- धनारामे ग्रामे लीलाधरद्विजस्य रूपसेना सुता, अन्यदा यौवनशालिनी तां विलोक्य देवदत्ताऽऽख्य एको द्यूतकृत् स्मरातुरो भक्तितुष्टेनैकेन योगिना दत्तेन मन्त्रेण मोहितां तां लात्वा निशि पुराबहिरगात्। अग्रतः सः, पृष्ठतश्च सा एवं गच्छतोस्तयोर्निशि वनाऽहिना दष्टः स द्यूतकृत्परासुरासीत्। मृतं तं विमुच्य दिग्मूढा सा तत्रैवेतस्ततो यूथभ्रष्टा मृगीव भ्रमन्ती मृगयार्थमागतेन रूपसेनेन राजसूनुना दृष्टा, का त्वमसीति पृष्टा च मातुलगृहान्मात्रा सार्धं पितुर्गृहं व्रजन्ती सार्थभ्रष्टाऽहमिहैव भ्रमन्त्यस्मि ।
वक्त्रं चन्द्रविलासि पङ्कजपरिहासक्षमे लोचने । वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः । वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली ।
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ ३ ॥ इति स्वाभाविकस्त्रीसप्तमण्डनमण्डितं तदङ्गमालोक्य, लक्षणैश्चानूढेयमिति निश्चित्य च मम पट्टराज्ञीयं भाविनीति मत्वा, नि:स्वामिकं रत्नं राज्ञामिति च ध्यात्वा स तां पुरे निनाय। अन्तःपुराऽन्तः समेतां तां विलोक्य यदीयं राज्ञी भविता तदास्माकं भर्तुरपमान एवेति मत्वाऽन्याभिः कुमारस्त्रीभिः कुतोऽप्यानीय तस्यास्तूलिकाऽन्तर्मुक्त: सर्पो निशि सुप्तां तामदशत्। विषमूर्च्छितां तां मृतां मत्वा निम्बपत्रैः समं मञ्जूषाऽन्तर्निधाय राजसुतः सायं सरित्प्रवाहे मुमोच। तरन्ती सा मञ्जूषा प्रभाते सिन्धुग्रामपरिसरे देहचिन्तार्थमागतेन चन्द्रभागेन श्रेष्ठिसूनुना विलोकिता कर्षिता च बहिः, तदन्तःस्थां कन्यामहिदष्टां मत्वा स्वाऽङ्गलीयमणिजलसेचनेन सञ्जीव्य च परिणयनवाञ्छया स तां निजौकसि नयति स्म। तत्रापि राजसुतस्त्रीवत् तत्स्त्रीभिरपि तथैव विचिन्त्य विनोदेन कूपतटे नीत्वा हे शुभे! कूपं पश्येति दम्भेन सा कूपे क्षिप्ता, कूपवेदिकायां च पतिता सा जलार्थमागतया कामसेनावेश्याया दास्या बहिष्कर्षिता, समर्पिता च स्वस्वामिन्यै, मदोकसि निधानमिदमागतमिति मुदितया तया सा स्वपदे न्यधायि, १. AHD | राजसुतेन सा दृष्टा, तयापि राजसुतो दृष्टः, मिथो रागः सञ्जातः, तद्व्यतिकरो ज्ञातः श्रेष्ठिसुतेन,
ततस्तेन क्रीडामिषेण सा वने नीत्वा कूपविलोकनदम्भेन सा कूपे क्षिप्ता - मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org