________________
१४४
श्री कथारत्नाको
श्री हेमविजयरचिते मिथः सम्बन्धेन प्रीतिरविनश्वरी स्यादिति निर्णयं विधाय स्वस्वभर्तुः कथयतः स्म । मुदिताभ्यां ताभ्यामप्येतस्मिन्ननुमतेऽन्यदा शुभे दिने राजपत्नी पुत्रीमसूत, महामहै: कृतं च राज्ञा कमलमालेति तन्नाम । एतदाकर्ण्य सार्थकनामा मन्त्रिपत्नी रहसि विश्वस्तेन परिजनेन वृता पुत्रीं सूत्वा पुत्रो जात इति च बहिर्वार्तामकथयत् । राजसभाऽऽसीनेन मन्त्रिणा दासीमुखात्पुत्रजन्म निशम्य वस्त्राऽऽभरणादिना दासी सन्मानिता, जामातुर्जन्माकर्णनान्मुदितेन राज्ञापि सा दासी बहु सत्कृता।।
अथ गृहमागतो मन्त्री प्रियायास्तद्विरुद्धं चेष्टितमवगत्य तामूचे- हे 'पापिनि ! धिक् त्वां, कोऽयं भृशदुस्तरः कपटविस्तरः' ? 'स्थैर्यं भज ! कातर्यं त्यज ! कुरु विलम्बं ! नोत्सुको भव ! सर्वं भव्यं भावी' इति धृष्टया तयोक्तः सोऽपि विशेषत: पुत्रजन्मोत्सवं विधाय कमलकेलिरिति तस्य नाम निर्ममे, एकदा च मन्त्रिणा राज्ञे कथितं, हे स्वामिन्नद्य निशि मद्गोत्रदेव्येति प्रोक्तं, यद् द्वादशाब्दी यावत्कस्यापि त्वया स्वपुत्रो न दर्शनीयः, अन्यथा चेत्तदाहमेनमवश्यं लास्यामि, हे देव ! तेन देवपादानां जामातुर्दर्शनेऽन्तरायः सम्पन्नः, यत्नेन मे जामाता गृहान्ते रक्षणीय इति राज्ञोक्तो मन्त्री स्वमतिविरचितं पत्न्यै निवेद्य रहस्येव तस्याः पुरुषकलाऽभ्यासमकारयत्।
अथ तस्यै स्वविलसितं निवेद्य जातद्वादशाब्दी तां कारितपुंवेषां स राज्ञोऽग्रे निनाय, राजापि प्रथमे जामातुर्दर्शने तस्मै गजतुरगादि बहु दत्ते स्म । राज्यपि जामातरं तथैव सत्कारयामास। अथैकदा तया-त्वय्यारूढायां यत्रायं हयो याति, त्वयाऽपि तत्रैव गन्तव्यं न पुनरिहागन्तव्यमिति शिक्षितयाऽऽसन्ने विवाहवासरे पित्रा विपरीतशिक्षिते हयेऽध्यारोपितया पुरुषवेषधारिण्या तया कशाहतः स हयो वनं प्रत्यचालीत्, हा जामातरं लात्वा पापोऽयं हयः क्वापि गत इति राजा राज्ञी च भृशं सशोकौ जातौ। सुतारूपाऽस्मद्गृहादलक्ष्मीर्गता, अथ यदि सा समेष्यति तदा राज्ञः पुरस्तादित्यभिधास्यावो यत्केनाऽपि पापिना देवेन छलितोऽस्मत्पुत्रः पुत्री बभूवेति बाढं मुदितौ मन्त्री मन्त्रिप्रिया च । अथ महारण्यं गतैषैकस्मिँस्तीर्थे महाहूदे पतिता वानों वानरा जाता इति तीर्थमहिमानमालोक्य, साऽपि वस्त्रसहितैव तत्र पतिता पुमानासीत्; तमेव हयमारुह्य च गृहमागता, हा पापिनि ! त्वया कथं मुखं दर्शितं? याहि यमधामेति पित्रोपालब्धा सा पितुः स्वं रूपमदीदृशत्, जगाद च तीर्थप्रभावम्। जामातरमागतमाकर्ण्य राजापि सहर्षोऽजनि। विलम्बेन श्रेयःसङ्गतिरिति मन्त्रिणा च स्वीकृतम्। राजसुतां परिणीय मन्त्रिपुत्रोऽपि विषयान् सिषेवे॥ इति विलम्बेऽवश्यं कल्याणमित्यर्थे दम्भमन्त्रिकथा ॥११८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org