________________
१४३
तरङ्ग ५/ कथा ११६/११८ सम्बन्धिनोऽपि प्रणयं सृजन्ति, सत्यां सुतायामुदधेर्निजेषु।
अधौतमेवामुचदङ्गनापि, पादं प्रियस्य श्रुतवित्तनाशा ॥ २ ॥ तथाहि- बलभद्रावासे नगरे कुसुमश्रेष्ठी, तस्य च कुसुमश्रीर्गेहिनी। एकदा स श्रेष्ठी बहुवित्तयुतः परदेशं गतः, परमलाभकर्मोदयवशान्मूलवित्तमपि विनाश्य बहुभिरहोभिगुंहमागतः । अथ किमपि वस्त्राऽऽभरणादि मदर्थं प्रियेणाऽऽनीतं भावीति मुदितचित्ता तत्प्रियापि बहुदिनैरागतस्य स्वप्रियस्य स्नानादिना विशेषतः प्रतिचर्यां कृत्वा यावत्स्वयमीषदुष्णेन वारिणा चरणधावनं विधत्ते तावत्तस्य चन्द्रदत्ताख्येन मित्रेणाऽऽगत्य स्वागतप्रश्रपूर्वं व्यवसायलाभादिकोदन्तं पृष्टः सोऽभाषिष्ट, हे मित्र ! तत्र देशान्तरे रजतमहारजतमुक्ताफलमणिमाणिक्यादिवस्तुव्यापारान्मम वित्तहानिरेवाऽजनि, न तु लाभलेशोऽपि, तेन मूलधनविनाशात्तत्र विलम्बितोऽप्यहमभाग्यतो रिक्त एव समागामिति पतिकथितमाकर्ण्य, हा मदर्थं मत्प्रेयसा किमपि नाऽऽनीतमिति विनष्टचित्तया तया चैकश्चरणस्तु चारुतया क्षालितः ।
__द्वितीयस्मिस्तु चरणेऽधौते एव मुक्ते स दध्यौ, धिग्धनं, येन विना परिणीताः कुलीना अपि प्रेयस्य: प्रेयस्यपि स्नेहमुज्झन्तीति स्त्रीषु विरक्तचित्तो मित्रमुद्दिश्यैकं दोधकं स्वकृतमपाठीत्।
क्युरे वेश्या बप्पडी, जूठउ कंकण ठाय ।
द्रव्यविना कुलवंतीए, हेठउ मेल्यउ पाय ॥१॥ इति गृहस्थाऽऽवासाद्विरक्तः स संयम जग्राह ॥ इति वित्तनाशे निजा अप्यस्नेहा इत्यर्थे कुसुमश्रीश्रेष्ठिनीकथा ॥ ११७ ॥
॥११८ ॥ विलम्बेऽवश्यं कल्याणमित्यर्थे दम्भमन्त्रिकथा ॥ अशुभे कर्मणि पुंसां विलम्बो वरीयान्, यतः
क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् ।
दिनेन लभ्यते कालः, काल: कालो भविष्यति ॥ १ ॥ अपि च
स्थैर्यं क्वाऽपि भवेत्पुंसां, प्रायः पूरितवाञ्छितम्।
तेनाऽभून्मन्त्रिणः पुत्री, पुत्रस्तीर्थप्रभावतः ॥ २ ॥ तथाहि- धनवत्यां पुर्यामशोकचन्द्रो राजा, तस्य च अशोकश्रीराज्ञी, दम्भो मन्त्री, दम्भवती च मन्त्रिपत्नी, राजप्रिया मन्त्रिप्रिया च ते द्वे अपि मिथः सख्यावापन्नसत्त्वे, एकदैकान्ते ते आवयोर्यदि पुत्रपुत्र्यौ भविष्यतस्तदा तयोरेव विवाहं कारयिष्यावः, यथावयो१. लाभादि किं वदन्ति (न्ती P)। उदन्तो पृष्टः - AHP 1 २. मित्रामुत्र - PDI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org