________________
१४२
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥११६ ॥ अतिलोभे सिद्धिकथा ॥ लोभादेवानर्थः, यतः
सत्यं चेत्तपसास्ति किं ? शुचि मनो यद्यस्ति तीर्थेन किं?, सद्विद्या यदि किं धनैः? सुमहिमा यद्यस्ति किं भूषणैः? । लोभश्चेदगुणेन किं ? पिशुनता यद्यस्ति किं पातकैः?,
सौजन्यं यदि किं ? निजैरपयशो यद्यस्ति किं मृत्युना? ॥ १ ॥ तत्राऽप्यतिलोभादशमॆव, यतः
लोभाभिभूतभूतानां, स्यादनर्थपरम्परा ।
अधिकाधिकमिच्छन्ती, सिद्धिरन्धाभवद्यथा ॥ २ ॥ तथाहि- श्रावस्त्यां नगर्यां बुद्धिसिद्धिसंज्ञे वृद्धे द्वे ना? मिथः प्रीतिमत्यौ दौ:स्थ्यदुःखिते सख्यावास्ताम्। तत्र च कामघट इव लोकानां कामितपूरको भोलाको नाम यक्षः । एकदा चैत्यप्रमार्जनलिम्पनधवलनमण्डनचित्रणबलिकुसुमपत्रफलादिभूरिभक्तितोषितः तुष्टः स यक्षो बुद्धिमाह- हे बुद्धे ! याचस्व स्वं समीहितमित्युक्तया तया याचितमेकं सुवर्ण प्रतिदिनं स यक्षस्तस्यै ददौ । तेन च क्रमेण तद्गृहे धनधान्यादिसामग्रीं भूयसी विलोक्य सिद्ध्या पृष्टया बुद्ध्या सर्वं यथाजातमुक्तम्।
अथ सिद्धिरपि तं यक्षं तथैवाराऽऽध्य बुद्धितो द्विगुणमयाचिष्ट। तत्स्वरूपं ज्ञात्वा बुद्ध्याऽपि त्रिगुणे मार्गिते सिद्धिश्चतुर्गुणमयाचत। एवं परस्परं स्पर्धया दशगुणं यावत्ताभ्यां याचितं यक्षेणाऽपि च दत्तम् । अथैकदा परद्रोहबुद्धिधुरीणा बुद्धिरेकां मम दृष्टिमन्धयेति याचितो यक्षस्तथैवाकरोत् । अथ बुद्ध्याराधितेन यक्षेण किमपि तस्याः प्रभूतमर्पितमित्याकर्ण्य लोभाभिभूता सिद्धिर्बुद्धितो मम द्विगुणं देहीती याचितो यक्षस्तस्या द्वे अपि दृशौ द्रागान्धयत्। एवं प्राप च साऽतिलोभफलमन्धत्वम् ॥ इत्यतिलोभे सिद्धिकथा ॥११६ ॥
॥ ११७ ॥ वित्तनाशे निजा अप्यस्नेहा इत्यर्थे कुसुभश्रीश्रेष्ठिनीकथा ॥ रूपादिगुणगणः श्रीरेव, यत:
रूपं विस्मितविश्वविश्वहृदयं विद्या विनोदाऽऽस्पदं । सौभाग्यं सकलं बलं रिपुवधूवैधव्यदीक्षागुरुः । जाति: संस्तवनीयकीर्तिरनिशं वंशः प्रशंसागृहं ।
सर्वस्वान्तनियन्त्रणैकविदुरा श्रीरेव सङ्गीयते ॥ १ ॥ तेन सम्पत्तौ सत्यां सम्बन्धिनामपि प्रीतिः, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.