________________
१४१
तरङ्ग ५/ कथा ११३/११५ ॥ ११५॥ सतां मनसि पातकं खाकरोतीत्यर्थे दामोदरविप्रकथा ॥ अज्ञातादपि विहितं दुरितं सतां मनो दुनोति, नाऽसतां ज्ञात्वाऽपि कृतं दुष्कृतं, यतः
पावं कम्मं विहिरं, हिअए सल्लूव्व होइ धण्णाणं।
तं चिअ पुण अण्णेसिं, पिअं अमयं व तुट्ठीकरं ॥१॥ तथा च
पापं शल्यमिव स्वान्ते, सतां तन्नाऽसतां पुनः।
निदर्शनमिह स्पष्टं वाणिजे ग्रामरक्षके ॥ २ ॥ तथाहि- वटपद्रे नगरे पुण्यरङ्गस्य राज्ञो मित्रेणाऽऽभीरेणैका कामधेनुपुत्रीव रम्या वत्सिका प्राभृतीकृता, राज्ञाऽपि शारदशशिधवला सा सुतेव दुग्धादिना प्रतिपाल्य यः कोऽप्येनां दण्डादिना हनिष्यति स राज्ञा दण्ड्य इति सकलेऽपि पुरे घोषणां कृत्वा पुरे स्वैरं भ्रमन्ती मुमुचे। एकदा गङ्गादासस्य वणिजो हट्टे कणभक्षणपरा सा सहसात्कारेण तेन वणिजा दण्डेन मर्मणि हता मृतिमाप। अथ राज्ञा पृष्टेनाऽनेन यथास्थितमुक्ते कोऽस्य दोष इति राज्ञा विसृष्ट: स सत्यवादी तां गोहत्यां पुनः पुनः स्मरन् गृहे गत्वा यावत्स्वपिति तावत् तद्गोहत्यापातकं तेज्जठरान्तहम्भारवं करोति, एवं च यदा स स्वपिति, तदा तथैव हम्भारवे जायमाने गतनिद्रः स तद्गोहत्यापापं दातुं देवकपत्तने प्रभासतीर्थवासिनो दामोदरस्य विप्रस्य सुवर्णसहस्रं दत्त्वा तत्करे जलक्षेपपूर्वं तत्पापं ददौ।
गते च तस्मिन्नथ तथैवोदरे हम्भारवे जायमाने दामोदरोऽप्यधिकं तत्सुवर्णसहस्रं दण्डे वितीर्य राज्ञाऽधोमुखं बद्धं कन्थराऽऽख्यं ग्रामाऽऽरक्षकमङ्गीकृततत्पातकं तद्वन्धनादमूमुचत् । अथ दिनस्याऽल्पत्वेन स विप्रः कन्थरस्य गृहे गत्वा तत्खट्वानिकटे सुप्तः, परं निद्रामकुर्वाणं तं कन्थरः प्राह, हे विप्र! कथं त्वं निद्रां न करोषीति पृष्टे सोऽवादीत्, यथा ममोदरान्तरिदं वणिजो गोहत्यापातकं पूत्करोति तथाऽस्य विप्रस्य उदरे करिष्यति न वेति ज्ञातुं मया गतनिद्रेण स्थीयतेऽधुनेति कथिते सोऽवदत्, हे विप्र ! तवोदरे हत्यापातकमन्यन्नास्ति, तेनैकाकिनी सा गोहत्या ग्रामपशुवत् खाट्कृतिं चकार। अथ ममोदरे तु ता भूयस्यस्तेन ताभिः सङ्गतैषा स्वजातिमिलिता ग्रामगौरिव मौनमाधाय स्थितवतीत्याकर्ण्य नि:शूकानां मनसि हत्यादिभीतिर्न स्यादिति निश्चित्य स विप्रो गृहं गतः ॥ इति सतां मनसि पातकं खाट्करोतीत्यर्थे दामोदरविप्रकथा ॥ ११५ ॥ १. तज्जठरान्तरे हंभारवं - D || २. PDI तथा तवाऽपि करिष्यति - मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org