________________
१४०
श्री कथारत्नाकरे
श्री हेमविजयरचिते तथाहि- धनवासे पुरे बहवो गोपाला वसन्ति स्म, तत्र च बहुधनधान्यादिसमृद्धस्य सुरणस्य गोपस्याऽतिमूर्खा सुरमानामजननी, एकदा वर्षाकाले सुरमायाः पुरः प्रभूतशास्त्रवेत्ता केशवो नाम भट्टः प्रभातादारभ्य प्रथमं यामं यावद्बाढस्वरेण भागवतं वाचयति स्म, परं सा जडा किमपि न वेत्ति, न च तुष्यति, न च किमपि तस्य प्रयच्छति, किञ्चैकदा सा स्वसुतस्येति वक्ति, हे सुत! यदस्य भट्टस्य कोऽपि महान् रोगो जातोऽस्ति, येनाऽयं प्रभातादारभ्याऽऽद्यप्रहरं यावद् बाढस्वरेण पूत्करोतीति तदुक्तमाकर्ण्य स दध्यौ, ममाऽपि पुरैको महिष एवमेव प्रकुर्वन्नभूत्, डम्भितश्च स समाधिमानासीत्, तेनाऽस्यापि सैव प्रतिक्रिया घटते, इति स्वपुरुषैस्तं पादादिषु ग्राहयित्वा तेन दशमद्वाराद्यवयवेषु महिष इव डम्भितः, मुक्तोऽथ भट्टो दध्यौ, हा मया लब्धमद्य देहदाहलक्षणं मूर्खाणामुपदेशजं फलमिति स्वं धाम सोऽगात् ॥ इति मूर्खाणामुपदेशेनाऽनर्था इत्यर्थे केशवभट्टकथा ॥११३ ॥
॥११४ ॥ मूर्खाणां हितकार्यकथनेष्यनर्था इत्यर्थे सूरनाथयोगिकथा॥ निरक्षराणां हि कृत्यकरणे कार्यकर्तुरेवाऽनर्थाः, यतः
जो कुणइ हिअंकज्जं, मणुआणं अइ अयाणमाणाणं।
सो अ अणत्थं पावइ, दि©तो इत्थ फलिअतरू ॥ १ ॥ अपि च
बालिशानां पुरो वाच्यं, न हितं हितमिच्छुभिः ।
हितवाक्कथनाद्योगी, सरोऽन्तर्निदधे जनैः ॥ २ ॥ तथाहि- पूरणे ग्रामे लोका: क्षारेणोदकेन काममुद्वेजिताः, यतः
माठउ धोरी ठोठ गुरू, कुइ ते खाऊं नीर।
गामि कुठाकुर घरि कुघरणी, पंचइ दहइ शरीर ॥ ३ ॥ इति हेतोस्तद्वासिभिः संभूय भूरिवित्तव्ययेन कारितेऽपि मनोहरे सरोवरे मरुभूमाविव तत्र नीरं नाऽतिष्ठत् । भृशमुद्विजाना नागरा अपि बलिनैवेद्यविधानपुरस्सरं सरोदेवीमर्चयन्ति स्म, तथापि गुह्यमिवाऽसज्जनमनसि तत्र सरसि वारि नाऽस्थात्। अथैकदा मन्त्रतन्त्रयन्त्रभूताराधकादीन् बहून् विशारदान् पृच्छद्भिः पौरैरेकत्र महान्तमेकं सूरनाथनामानं योगिनं विलोक्य पृष्टं तस्मिँस्तटाके नीरानवस्थानरूपं स्वमशर्म। द्वात्रिंशल्लक्षणधरो नरो जीवनत्र सरोन्तर्निधीयते तदात्र पानीयं तिष्ठेदिति निशम्य द्वात्रिंशल्लक्षणधरोऽयमेवास्ति, किञ्च नि:स्वामिकश्च इति मत्वा भूयोभिस्तैः सम्भूय स एव योगी जीवंस्तत्र सरोन्तर्निदधे, लब्धं च तेन योगिना मूर्खाणां हितकृत्यकथनजं निजमरणलक्षणं फलमिति । एवं स योगी मृत्वा नरके ययौ। ॥ इति मूर्खाणां हितकार्यकथनेऽप्यनर्था इत्यर्थे सूरनाथयोगिकथा ॥११४ ॥ १.भूयो AHPD I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.