________________
तरङ्ग ५ / कथा ११० / ११३
तेन परैर्हक्कितानां केषाञ्चिदेव सुभटत्वं स्यात्, यतः -
ये न नश्यन्ति ते वीरा, भूरिभिर्हक्किताः परैः ॥ यद्भूपो नाऽच्छिनद्वर्म, स्त्रीहक्कारवकातरः ॥ २ ॥
तथाहि - तिलकपुरे पुरे बलसारो राजा, तत्र च धूरणाख्यो लोहकारस्तस्य च करिणी प्रिया । अथैकदा करालकरवालकुन्तकुठारादिककठोरप्रहारैरच्छेद्यकवचकलाकौशलार्थं राज्ञा प्रहितो धूरण: परदेशं ययौ । कालेन तत्कलामादाय गृहमागतः स बहुभिरहोभिरतिदृढं लोहमयं कवचं कृत्वा भूपाय ददौ, भूपोऽपि तत्परीक्षार्थं तं कवचं स्तम्भे निबध्य स्वयं मुक्तेनाऽसिना द्विधा व्यधात् । एवं तेन पुनः पुनर्निर्मितं कवचं राज्ञा खंडशः कृतम् ! अथ विषादमापन्नः प्रियापृष्टः स सर्वं कवचनिर्माणच्छेदनादिवृत्तान्तं न्यवेदयत् सा प्राह- हे स्वामिन्नथैकं कवचं कुरु । किं च तदादाय व्रजता भवता सममहमपि भूपसभामेष्यामीति ।
अथैकं कवचं कृत्वा तदादाय च पार्थिवपर्षदि गच्छताऽनेन समं साऽपि तत्राऽऽगत्य पतिपङ्क्तौ तस्थौ । भूपस्तदपि कवचं स्तम्भे निबध्याऽसिप्रहारं यावता मुञ्चति, तावता तया च करिण्या स्वकक्षान्तरालादेकं तडित्सखं खड्गमाविष्कृत्य कथमत्राऽऽगच्छसीति बाढस्वरेण हक्कितेन राज्ञा मुक्तेऽप्यसिप्रहारे तत्कवचमखण्डितमेवाऽस्थात् । अथ साऽवादीत् - हे देव ! त्वं मूर्खोऽसि, तत्कथमिति पृष्टे साऽभाषिष्ट - हे देव ! यः कश्चिदिदं कवचं परिधाय युधि समेष्यति, स स्तम्भो न भविता, किं तु स कोपाटोपलोचनो वीराऽग्रणीर्भावी, तेनाऽबलाया मम हक्कारभीरुणा भवता यदिदं न छिन्नं, तदा कथं तस्य वीराऽवतंसस्य वपुषि त्वया प्रहारोऽपि मोक्तुं शक्यः ? इति विचारमकुर्वतो भवतो मूर्खत्वमिति तन्मतितुष्टेन तेन राज्ञा सा स्वसेव वस्त्राऽऽदिना सत्कृत्य विसृष्टा पतियुता गृहं ययौ ॥ इति शूरा अपि परहक्किताः कातर्यं यान्तीत्यर्थे बलसारनृपकथा ॥ ११२ ॥
॥ ११३ ॥ मूर्खाणामुपदेशेनाऽनर्था इत्यर्थे केशवभट्टकथा ॥ ये मूर्खाणां पुरतः सदुपदेशं सृजन्ति त एव मूर्खाः, यतः - तैः कर्पूरलवा सुधांशुसदृशाः क्षिप्ताः शुनामानने; तैर्न्यस्ता वदनोदरे हुतभुजामम्भोरुहामङ्कराः। तैर्दुग्धं निदधे सुधाप्रियसखं तुण्डे पुनर्भोगिनां, मूर्खाणां पुरतोऽभ्यधायि सुकृतं यैमूर्खमुख्यैः सखे! ॥ १ ॥ किञ्च मूर्खाणां पुरः पण्डिता अपि सदुपदेशेनाऽनर्थभाजः स्युः । यतःकलाविलासो मूर्खाणां, पुरोऽनर्थनिबन्धनम्।
भट्टः क्षेणं सृजन् ग्राम्यै, रक्ताक्ष इव डम्भितः ॥ २ ॥
मु.॥
१. HD I सखै:
Jain Education International
- A । श्लोकोऽयं मु. नास्ति ॥ २. AHDI कथां वदन्
१३९
For Private & Personal Use Only
www.jainelibrary.org