________________
१३६
श्री कथारत्नाकरे
श्री हेमविजयरचिते ऽऽहारपरायणः स शीलं पालितवानिति बह्वसमञ्जसम्। राजाप्येवमेव मन्यमानो गुरूनाहूयेति जगौ- भो ! भट्टारकाः! साम्प्रतं वणिजामग्रे किं वाच्यमानमस्ति? श्रीस्थूलभद्रचरित्रमिति गुरुभिरभिहिते तत्र का कथेत्युक्ता गुरवोऽभिदधिरे
वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं, रम्यं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायाऽऽदरा
त्तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ३ ॥ एतदाकर्ण्य मुधामत्सरिणो भूपाभ्यर्णभाजो द्विजन्मानोऽभ्यधुः
विश्वामित्रपरासरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा
स्तेषामिन्द्रियनिग्रहः कथमहो ! दम्भः समाऽऽलोक्यताम् ॥ ४ ॥ एतत्पैशुन्यज्ञानपटवः प्रतिवचश्चञ्चवः श्रीगुरवः प्रोचिरे, हे नरशार्दूल! शीलपालनाऽपालने नाऽऽहाराऽनाहारौ कारणं, किन्तु मनोवृत्तिरेव । यतः
सिंहो बली द्विरदसूकरमांसभोजी, संवत्सरे रतिमुपैति किलैकवारम् । पारापतः खरशिलाकणमात्रभोजी, कामी भवत्यनुदिनं ननु कोऽत्र हेतुः? ॥ ५ ॥
एतदाकर्ण्य मुषितसर्वस्वा इव मुखं श्यामं कृत्वा सर्वेऽपि तेत्रयीमुखाः जग्मुः, राज्ञा मानिता: श्रीगुरवोऽपि स्वं स्थानमलञ्चक्रुः ॥इति प्रत्युत्तरप्रदानविषये श्रीहेमचंद्रसूरिकथा ॥१०८॥
॥१०९ ॥ प्रस्तावोचितवचने भूकण्डविप्रकथा ॥ अवसरोचितवक्ता हि पण्डितः, यतः
प्रस्तावसदृशं वाक्यं, सद्भावसदृशीं श्रियम् ।
आत्मशक्तिसमं कोपं, यो वेत्ति स हि पण्डितः ॥ १ ॥ प्रस्तावोचितवचनादापत्स्थानेऽपि सम्पदः स्युः, यत:
प्रस्तावोचितवाक्यं किं, भूरिणे शर्मणे न हि ।
भट्टिनष्टेति भणना-च्चौरेणाऽरञ्जि यन्नृपः ॥ २ ॥ तथाहि- काश्मीरदेशमध्यवर्तिनि महानन्दिपुरे नानाशास्त्रनिपुणः पण्डितप्रियो भूधवो नाम पार्थिवोऽजनिष्ट, तदभ्यर्णपुरवासी कविकलाकुशलो दुर्दैववशेन लग्नचौर्यव्यसनो भूर्कण्डनामद्विजन्मा तत्र पुरे चौरिकार्थं भ्रमन्निशि कोट्टपालपुरुषैधृतो बद्ध्वाऽऽनीतश्च नृपाग्रे, तस्करा १. संवत्सरेण रतिमेति - उपदेशप्रा. व्या. ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.