________________
तरङ्ग ५ / कथा १०६ / १०८
करिकर्णेषु न स्थैर्यं, न स्थैर्यं कुशवारिषु ।
विद्युल्लतासु न स्थैर्यं, न स्थैर्यं हृत्सु योषिताम् ॥ ४ ॥
इत्याकर्ण्य सोऽवोचत्, हे देव! नैषा तादृशी, अथान्यदा स पुनरपि तथैव तं जगौ, हे त्रिविक्रम ! भट्टभामिन्याः शिरसाद्य गोत्रजापूजा कृता विलोक्यते, ततस्तदाऽऽनय। तत् श्रुत्वाऽतीवचिन्तातुरमागतं तं पृष्ट्वा साप्यसिना स्वं मूर्द्धानं चिच्छेद। सोऽपि रुदन् दुकूलेन पिधाय तन्मूर्द्धानं राज्ञोऽग्रे विमुच्य तत्कालं तत्कायं श्रीखण्डखण्डैरदीदहत् ।
तस्या रागेण चाऽपरकलत्रमकुर्वाणस्य तस्य प्रतिबोधाय राजैकममृतपात्रं तस्मै दत्त्वेति ब्रूते स्म, अनेनामृतेन चितास्थानं सिञ्चय यथा सा जीवति, तेनापि द्रुतमेव तथैव विहिते जीविता सा भट्टमुखादमृतमहिमानं ज्ञात्वेति ध्यातवती, यद्यहं दैववशेनाद्य जीविता, कदापि न जीविता तदा का गतिर्ममेति मत्वा सा तेनामृतेन मूलपतिचितास्थानमभिषिच्य तं च जीवयित्वा तदमृतपात्रं चाssदाय निशीथे तेन समं परदेशं ययौ । तया तथा निर्मितं ज्ञात्वा भूपो भट्टमभणत्तिक्कम ती नवि धीरीयें, जओ सिर कट्टी देई । 'नदीकिनारें रुक्खडां कबहि समूलां लेइ ॥ ६ ॥
इत्याकर्ण्य स भट्टोऽपि स्त्रीषु सर्वथा विरक्तो भवति स्म ॥ इति योषितो नाऽऽत्मीया इत्यर्थे त्रिविक्रमभट्टप्रियाप्रेमवतीकथा ॥ १०७ ॥
॥ १०८ ॥ प्रत्युत्तरप्रदानविषये श्रीहेमचन्द्रसूरिकथा ॥ वक्तारो हि गगनकुसुममिव दुर्लभाः, यतः -
शतेषु जायते शूरः सहस्रेषु च पण्डितः ।
वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥ १ ॥ तेन वक्तारं विना पार्थिवादीनां सभासु न कोऽप्यन्यः प्रतिवचो दातुमलं यतः - प्रत्युत्तरं कः प्रददाति सम्यग् विहाय विद्यासदनं वेदान्यान् ।
सिंहो बलीत्थं कथयन् द्विजानां, श्रीहेमचन्द्रः पिदधे मुखानि ॥ २ ॥
तथाहि-- पत्तनेऽन्यदा भूरिमहेभ्यसभायां कलिकालसर्वज्ञैः श्रीहेमचन्द्राचार्यैर्वाच्यमानं श्रीस्थूलभद्रमहामुनेश्चरित्रमाकर्ण्य जैन श्रमणद्वेषिभिर्द्विजन्मभिः सिद्धराजजयसिंहदेवो भूपो विज्ञप्तः, हे देवाऽस्मिन्नगरे नागराणां पुरस्तादेको व्रतिक इति कथां कथयति पाटलीपुरे शकडालसचिवसूनुः स्थूलभद्रः परिव्रज्य पूर्वपरिचिताया वेश्याया वेश्मनि चतुर्मासीमासीनस्तत्र षड्रसा१. नदि किराडइ HDI २. AHPDI समर्थम् - मु. ॥
Jain Education International
१३५
-
For Private & Personal Use Only
www.jainelibrary.org