________________
१३४
श्री कथारत्नाकरे
__ श्री हेमविजयरचिते यद्यसौ मम गेहिनी नाऽस्ति तदैवमस्तु, परं मत्पाणौ पानीयं निधाय मदाऽऽयुरनया दीयतामिति तेनोक्ते राज्ञाऽऽदिष्टा सा धृष्टा तथैव व्यधात् । अथ तदा काकतालीयन्यायेन नभसि व्रजन् स एव विद्याधरस्तं वृत्तान्तं निभाल्य रुष्टो विद्याबलेन व्योमस्थ एव तां निहत्य स्वस्थानं ययौ, लोकैर्निन्दिता सा द्विधाप्यधस्तादपतत् । धन्योऽसौ महात्मेति लोकैः स्तुतः शोभन: स्वं धाम गत्वा स्वमर्थं समर्थयामास ॥ इति युवती नाऽऽत्मीयेत्यर्थे श्रेष्ठिप्रियादामिनीकथा ॥१०६॥
॥ १०७ ॥ योषितो नात्भीया इत्यर्थे त्रिविक्रमभप्रियाप्रेमवतीकथा॥ स्त्रीणां विश्रम्भकरणे मरणं, यतः
अनुचितकर्मारम्भः, स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि ॥ १ ॥ अपि च
विश्वासो नोचितः स्त्रीणां, प्रौढप्रीतिजुषामपि ।
यत्पीयूषरसं प्राप्य, भट्ट भट्टप्रियाऽत्यजत् ॥ २ ॥ तथाहि- कोरण्टकूटपुरे मकरध्वजस्य भूपस्य त्रिविक्रमो नाम भट्टः, स च भट्टो मृतायां स्वभार्यायामेकां मृतभर्तृकां रूपयौवनवतीं प्रेमवतीनामभट्टभामिनी स्वौकस्यनयत् । सा च विशेषतस्तस्मिन् रागवती जाता। किं बहुना ? परिणीतयोरिव तयोर्दम्पत्योर्मिथः प्रेम काममवर्धिष्ट। स च भट्टः सर्वत्र भोजनमज्जनशयनादौ तस्या विश्वास व्यधात् । एकदा भूपपर्षदि स्वप्रियायाः प्रशंसां कुर्वन् स राज्ञोचे- हे त्रिविक्रम! परिणीतानामपि स्त्रीणां विश्रम्भो नोचितः, किं पुनः परगृहादागतानामिति? यतः
नारीणां च नदीनां च, विश्वासो नोचितः सखे !।
मूलतः पातयन्त्येका, नरानन्याश्च पादपान् ॥ ३ ॥ तथापि- तन्मय इव स तत्प्रशंसां नाऽमुञ्चत् । एकदा मान्द्यमिषेण कियद्वासरानन्तःपुरे स्थित्वा बहिश्चाऽऽगत्य राज्ञा स भट्टोऽभाणि, हे त्रिविक्रम! साम्प्रतं मद्वपुश्चार्तमासीत्। तेनाद्य भट्टभामिन्या एकया कराङ्गल्या गोत्रदेव्याः पूजा निर्मिता विलोक्यते।
किं चाऽस्मिन् सर्वस्मिन्नपि पुरे तवैव प्रिया कथितकारिणी वर्तते, ततस्तद्विधेहि [एकामङ्गलिमानय? तत् श्रुत्वा चिन्तार्तोऽसौ] अथ गृहमागतश्चिन्तार्त्तः स निर्बन्धेन तया पृष्टः पार्थिवोक्तमुक्तवान्। तयाऽपि सद्य एव छुरिकया छेदित्वा दत्तां कराङ्गलिं नृपाग्रे विमुच्य स इति जगौ, हे राजन्! पश्य विनीताया मम प्रियायाः प्रणयमिति, तथापि तदश्रद्दधानो राजा योषितां चित्तेषु न स्थैर्यमित्याह । यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.