________________
तरङ्ग ५/ कथा १०४/१०६
१३३ भ्रमन्नेत्रः कम्पमानवपुरवादीत्, हे देव ! यद्वदसि तत्करोमि, मुञ्च मामिति वदन्तं तं यक्षो जगौ, त्वद्गृहघृतं नित्यं कृष्णविप्रौकसि प्रापयेरित्यभिधाय यक्षस्तं सज्जीकृत्य ययौ। सोऽपि तथैव चकार ॥ इति लोभादनर्थ इत्यर्थे विप्रकथा ॥१०५॥
॥१०६ ॥ युवती नात्भीयेत्यर्थे श्रेष्ठिप्रियादामिनीकथा ॥ उत्सङ्गजुषामपि चलचक्षुषां न विश्वासः, यतःशास्त्रं सुनिश्चितधिया परिचिन्तनीय-माराधितोऽपि नृपतिः परिशङ्कनीयः । अङ्कस्थिताऽपि युवतिः परिरक्षणीया, शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम्? ॥ १ ॥ अपि च
स्वीयाः सुलोचना एता, मतिर्मिथ्या वपुष्मताम् ।
आयुर्दानाज्जीविताऽपि, श्रेष्ठिनी यत्पतिं जहौ ॥ २ ॥ तथाहि- हस्तिपुरे नगरे सुरदत्तश्रेष्ठिनः पुत्रस्य शोभनस्य दामिनीनामकामिनी, रतिरतिनाथाविव तौ दम्पती मिथः प्रीतिभाजौ, एकदा शोभन: स्वप्रियां जगौ, हे प्रिये ! मृते मयि त्वं किं करिष्यसीत्यभिहिता साऽवदत्, हे नाथाऽवश्यमग्नौ प्रविश्य त्वामनुगमिष्यामीति प्रतिपन्नया तया पृष्टः सोऽप्येवमेवाऽवादीत् । अथैकदा दैवादहिदंशादाप्तमूर्छा सा मृतेवाभूत् ।
अथ मित्रपित्रादिभिर्वारितोऽपि त्यक्तत्रपः स स्मशानं नीयमानया तया सह ज्वलयितुं स्मशानं यावदेति तावत्तरणिरस्तमितः, नक्तं न दार्घ इति तन्मस्तकमुत्सङ्गे निधायाऽकृतप्रदीपे स्मशानौकसि स तस्थिवान्। तदा नभसि गच्छन् सस्त्रीकः कोऽपि विद्याधरस्तत्राऽऽगतस्तज्जीवनाय स्त्रिया विज्ञप्तः किमेतदिति तमप्राक्षीत् । तेनाऽपि यथाजाते स्ववृत्तान्ते कथिते सोऽवदत्, हे सुभग! यदि स्वमायुरस्यै दीयते तदाहमेनां जीवयामीति तेनोक्ते तेनापि स्वाऽऽयुषो दशसु वर्षेषु दत्तेषु विद्याबलेन तामुज्जीव्य गते तस्मिन्नुत्थितायास्तस्या उत्सङ्गे शिरो निधाय तत्रैव सुप्ते शोभने तदध्वना व्रजता केनापि मन्त्रिपुत्रेण तत्राऽऽगत्य साऽभाणि- हे सुभ्र ! मन्मन्दिरमलङ्करु, त्वामहमन्तःपुरप्रधानां करिष्ये इति, सा स्वोत्सङ्गस्थाने काष्ठे पतिशिरो निधाय तद्रूपमोहितायां तेन समं गतायां तस्यां स प्रातरुदस्थात्, अथ स तां गतां मत्वा गृहमागतः, पृष्टश्च पित्रादिभिः सा सुरेण जहे इत्याह, परं मनसि विषादमुद्वहन्निति दध्यौ, यत्सा स्वैरिणी मदाऽऽयुरादाय गतेति मां दुनोति। अथ सार्थवाहवेषेण सर:सरिद्वापीकूपादिषु स्त्रीवृन्दं पश्यन्निधिसारे पुरे सरसि जलक्रीडापरां तामुदीक्ष्योपलक्ष्य च तद्भर्तुर्ग्रहादिस्वरूपं जनादवगत्य स राज्ञे व्यज्ञपयत् । हे देव! तव मन्त्रिपुत्रेण मम प्रिया हृतास्तीति। राज्ञाप्याकार्य पृष्टा साऽभाषिष्ट, नाऽयं मम भर्ता, नाऽस्याऽहं गेहिनीति विवादे जायमाने राज्ञा पृष्टेन शोभनेन सर्वं वृत्तान्तं निवेद्योचे- हे देव! १. AHPD | दाह-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org