________________
१३१
तरङ्ग ५/ कथा १०२/१०४ अपि चन त्वविज्ञातशीलाय, प्रदातव्यः प्रतिश्रयः । यूका मत्कूणसङ्गेन, हता मन्दविसर्पिणी ॥ ३ ॥
तथाहि- बाणपुरे पुरे जितरणस्य भूपस्याऽतिस्वच्छदुकूलमय्यां तूलिकायां मन्दविसर्पिणीनामयूका सर्वदा वसति स्म। अन्यदा तत्र वज्रमुखो नाम मत्कुणः प्राघूर्णः समेतस्तां जगौ- हे मातृस्वस:! समाधिभागसीति ? साऽवादीत्- हे भागिनेय! भवतः स्वस्ति समस्ति? इति मिथः स्वागतप्रश्रपूर्वं प्रीतौ तौ क्षणं तस्थतुः । अथ यातुमुत्सुके तस्मिन् मत्कुणे यूका जगौ, भो भद्र ! अद्य त्वं ममाऽतिथिर्भव येन तव भक्तिं करोमि।
का भक्तिरिति तेनोदिता साऽऽह- यतोऽस्यां तूलिकायां पीनाङ्गः पार्थिवः स्वपिति। सुप्ते च तस्मिन् पीयूषादप्यतिमधुरं तस्य रुधिरं निपीय गच्छेरिति तन्निर्बन्धेन स्थिते तस्मिन् सायं स राजा तस्यां तूलिकायां सुष्वाप, सुप्ते च तस्मिन् राजनि तेन मत्कुणेन शनैः शनैर्निर्गत्य स पृष्ठे दष्ट :, केनाऽपि मद्वपुर्दष्टमिति पुनः पुनर्जल्पन् राजोत्तस्थौ। एतदवगत्य तत्परिजनोऽपि दीपेन तां तूलिकां शोधयाञ्चक्रे। ज्ञातसञ्चलः स मत्कुणः काकनाशं नष्टः, तत्परिवारेण च शोधितायां तूलिकायां वराकी सा यूका दृष्टा, अहो अनया पापयाऽस्मत्स्वामिशरीरं जग्धं, धिगिमां पापिनीमित्युक्त्वा सा मर्दिता, प्राप चाऽज्ञाताऽऽचारसंवासजं मरणरूपं फलम् ॥ इति कुमानुषसङ्गेऽनर्थ इत्यर्थे मन्दविसर्पिणीयूकाकथा ॥ १०३ ॥
॥१०४ ॥ साहसे धनश्रीकथा ॥ निर्लक्षणोऽपि पुमान् सत्त्वतः सिद्धिभाग्भवति। यतः
अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ।
गतौ यानं स्वरे चाऽऽज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥ १ ॥ अपि चबिलेशयबिले क्षिप्त-पाणिर्वाणिजवर्णिनी। सत्त्वतो रैलतां प्राप-दहो सत्त्वस्य वैभवम् ॥ २॥ __तथाहि-धवलपुरे पुरे धनस्य वणिजो धनश्रीः कामिनी, दानपुण्यपरयोरनयोदम्पत्योरम्भसि तैलबिन्दुरिव सर्वत्राऽपि कीर्त्तिः पप्रथे। एकदा श्रीशत्रुञ्जयमहातीर्थं व्रजन् भूयान् सङ्घस्तत्रोत्तीर्णः । तमालोक्य तत्पुरवासिमहर्द्धिकैकसुवर्णकारस्य पुरीनाम्नी पुत्री तत्सखी इति जगौ, हे सखि ! इमं सङ्घ कोऽत्र भोजयिष्यतीत्याकर्ण्य परगुणमत्सरिणी सा पुरी महादाता धनश्चैनं सङ्गं भोजयिष्यतीति हास्येन स्वसखीं यदाह, तत्सर्वं दैवात्तत्पृष्ठगा धनश्रीराकर्ण्य स्वपतेरभाणीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org