SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३० ॥५॥ पञ्चमस्तरङ्गः ॥ ॥१०२ ॥ स्त्रीचरित्रे महेशविप्रप्रिया-नन्दरीकथा॥ चलदृशां चरित्रं हि दुश्चिन्त्यं, यतः युवानमन्यं हृदये वहन्ति, पश्यन्ति दृग्भिः सुभगाभिरन्यम् । क्रीडन्ति चाऽन्येन समं समन्ता-दहो! चरित्रं चपलेक्षणानाम् ॥ १ ॥ तेनैतासामेव मानसे भूयः कपटं, यत: धूलिः किमेषा? दयितेन पृष्टे, प्राह प्रियैवं पतति स्म पाणेः । द्रव्यं तदन्वेष्टुमियं गृहीता, मयेत्यहो ! कैतवमङ्गनानाम् ॥ २ ॥ तथाहि- गञ्जणपुरे पुरे महेशस्य विप्रस्य नन्दरीनामसुन्दरी, अन्यदा परदेशं गते भर्तरि सा नन्दरी केनाऽपि पुंसा स्वैरं विषयान् सिषेवे। अथ भूयोभिरहोभिरगारमागते महेशे जलार्थं नदीं व्रजन्ती सा तेन यूना जगदे- हे सुभ्र ! यद्यद्य समेतेऽपि प्रेयसि मया मिलिष्यसि तदाऽऽवयोः प्रीतिरिति तथेति प्रतिश्रुत्य स्वं धाम गता सा विशेषतः स्नानादिना भर्तुरुपचर्यां विदधे। अथ महेशेन गोधूमचूर्ण-तण्डुलाद्यानेतुं द्रव्यं दत्त्वा विपणौ प्रहिता सा ध्यातवती, असावेवाऽवसरस्तेन प्रेयसा रन्तुमिति मत्वा हट्टस्थमेकं वणिजमाह- भद्र ! गृहाणैतन्नाणकं एतावद्गोधूमचूर्णमेतावन्तश्च तण्डुलाः सर्वमेतद्वस्त्रग्रन्थौ निबध्याऽत्र मोच्यं, कृताऽन्यकृत्याऽहमागच्छन्ती समादास्ये। तस्यां गतायां स वणिग् दध्यौ, नूनमियं स्वैरिणी केनापि रन्तुमुत्सुका याति, तेनाऽस्यां ग्रन्थौ गोधूमचूर्णादिस्थाने धूलिं बद्ध्वा मुञ्चामि, येनाऽऽगताऽसौ प्रकामौत्सुक्येन धूलिरन्यद्वेति न विलोकयिष्यतीति तेनैवमेव कृते समेता सत्वरा सा तां धूलिग्रन्थीं लात्वा गृहमाययौ, अथ पत्या ग्रन्थेरन्त: पांसुमालोक्य किमेतदिति पृष्टा समुत्पन्नसद्य:प्रतिभा साऽभाषिष्ट, हे कान्त ! भवता दत्तं नाणकं मत्पाणे: पतितं, तद्विलोकनाय भूयान् विलम्ब सञ्जातः, तदनाप्तौ च तत्स्थानरथ्यारजःपुञ्जमादाय समेताऽस्मीति तयोक्तः सोऽन्येन द्रव्येण सर्वकृत्यमसाधयन्मेने च तां महासतीम् ॥ इति स्त्रीचरित्रे महेशविप्रप्रियानन्दरीकथा ॥१०२ ॥ ॥ १०३ ॥ कुमानुषसङ्गेऽनर्थ इत्यर्थे मन्दविसर्पिणी-यूकाकथा ॥ कुसङ्गाद् व्याध्यादयो वराः, यतः वरं वाही वरं मच्चू, वरं दारिद्दसंगमो । वरं अरण्णवासो अ, मा कुमित्ताण संगमो ॥ १ ॥ येन नीचो हि सङ्गतानामनर्थहेतुः, यतः लूणा-घूणा-कुमाणसां, त्रिणे एकसहाव । जिहां जिहां करइ निवासडो, तिहां तिहां फेडइ ठाव ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy