SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १२९ तरङ्ग ४/ कथा १००/१०१ वित्तैर्न ससृजुरकृत्यकरैर्यदाढ्या-स्तल्लीलयैव खलु लोलदृशः सृजन्ति ॥ १ ॥ अपि च अनेककौतूहललीनचेतसा-मेणीदृशां पश्यत शक्तिमद्भुताम् । यन्नापितस्त्री गगनं व्यदारय-द्यन्मालिका च प्रगुणीचकार तत् ॥ २ ॥ तथाहि- रविपुरे पुरे पूणाह्वा नापितस्त्री, लक्षणाख्या च मालाकारस्त्री, द्वे अपि कपटपटीयस्यौ स्तः, एकदा परस्परं प्रीतिवार्ताप्रह्वयोस्तयोः पूणां लक्षणाऽभ्यधात्- हे सखि! कियती तव शक्तिः? अथ साऽवादीत्- यदहं गगनं स्फोटयामीति पूणया कथितेऽन्या न्यगदत्- तदा तदहं सज्जयामीति मिथः स्वां स्वां शक्तिमुद्गीर्य स्वं स्वं स्थानं गते। ___ एकदा पुरमध्ये व्यवहारिणां गृहेषु भ्रमन्ती पूणा प्रोषितभर्तृकां भानुमतीनामश्रेष्ठिसुतां रहसि स्माह- हे सुभगे ! वने प्रसूनमिव, शून्यवेश्मनि वेश्ममणिरिव तव यौवनं, येनाऽस्मिन्नवसरे तव पतिविप्रलम्भः, इत्युक्ता सा तद्वचने जातरुचिरिव यदा जज्ञे, तदा सा पूणा पुनर्बभाण, हे सुभगे ! त्वदुचितेनैकेन यूना समं तव सङ्गमं कारयिष्यामीति वादिनीं तां साऽनुमेने। अथ सा पूणा यूना भानुचन्द्रेण श्रेष्ठिपुत्रेण सहैकस्मिंश्चण्डिकौकसि तां भानुमती संस्थाप्य कोट्टपालमिति जगौ, हे स्वामिन्नत्र चण्डिकौकसि काऽपि स्वैरिणी जारेण सह प्रविष्टाऽस्तीति निशम्य स रात्रावेव स्वनरैस्तद्देवकुलं वेष्टयामास। अथ गगनं स्फाटितमस्तीति सर्वं लक्षणाया निवेद्य सा पूणा स्वगृहं गता। अथ सा लक्षणापि भानुचन्द्रगृहमेत्य तां सर्वां वार्ता तत्पितुरवादीत्। तेनाऽनुमता साऽपि पञ्चस्त्रीयुतां भानुचन्द्रप्रियामादाय वाद्यपुरस्सरं चण्डिकागृहं गत्वा तत्रस्थान् तान् नरानाह- भो भद्रा! यदस्माकं चण्डिकादर्शनं विना भोक्तुं न कल्पते, तेनाऽत्र प्रवेशो दीयतामिति । अथ ते प्रोचुर्यदत्र कोऽपि सस्त्रीकः पुमान् प्रविष्टोऽस्तीति प्रवेशो न दास्यते। ___ अथ सा स्माह यावतीनामस्माकमिह प्रवेशस्तावतीनामेव निर्गमो देय इति प्रतिपाद्य तेषां सर्वेषां प्रत्येकमेकैकं सुवर्णटङ्गं च दत्त्वाऽन्तःप्रविश्य च भानुमतीस्थाने तत्प्रियां विमुच्य भानुमतीं चाऽऽदाय सा लक्षणा स्वां प्रतिज्ञामपूरयत्, गगनं सन्धितमस्तीति पूणायाश्च जगौ। अथ प्रातरुद्घाटिते कपाटे तौ दम्पती निर्गतौ विलोक्य ते कोट्टपालपुरुषा लज्जितास्तं वृत्तान्तं स्वस्वामिने जगुः ॥ इति स्त्रीशक्तिविषये नापित-मालिकस्त्रीकथा ॥१०१ ॥ इति पं. श्रीकमलविजयगणिशिष्य पं. श्रीहेमविजयगणिविरचिते कथारत्नाकरे चतुर्थस्तरङ्ग समाप्तः ॥ श्रीरस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy