________________
१२८
श्री क्यारत्नाकरे
श्री हेमविजयरचिते अन्यदा स योगी तत्र पुरे भिक्षार्थं भ्रमन् राजमन्दिरं गतो भारत्या दृष्टः, अथ तस्य भिक्षां दातुमुपस्थितायास्तद्दर्शनाल्लिखिताया इव स्थितायास्तस्याः पाणिस्थं कूरं काका आददिरे। स योग्यपि तां पश्यंश्चित्रित इव तस्थौ। एतद्व्यतिकरं गवाक्षस्था श्रीमती विलोक्येदमभणत्
सा पिच्छइ तस्स वयणं, जोगी पुण नाहिमंडलं तीए ।
पुव्वभवंतरनेहो, कागा अ चुणंति तक्कूरं ॥ २ ॥ इति मत्वा यावत्सा समेति, तावत्स योगी तां तथैव हित्वा क्वापि गतः । अथाऽऽवयोरयमेव पतिरिति ताभ्यां सखीभ्यां सङ्केतो निर्ममे। अथ ज्ञाततत्प्रतिज्ञः स राजा ताभ्यां विज्ञप्त:
अलियं जपेड़ जणो, राया चोराण निग्गहसमत्थो ।
अम्हं चिय मणहरणो, सो चोरो णयरमझंमि ॥ ३ ॥ अथ राज्ञाप्युपायेन सर्वस्मिन्नपि योगिसमुदाये मेलिते तदन्तःस्थः स योगी ताभ्यां दृष्ट उपलक्षितश्च। भारत्या चाऽभाणि
__मज्झ मणं गहिऊणं, नट्ठो सहसत्ति तम्मि समयम्मि ।
अहुणा महकर चढिओ, कह वच्चसि कहसु तं नाह ! ॥ ४ ॥ योग्यपि जगौसिहलंकहरी गइहंसहहरी, आ नयणकुरंगीवंसहरी ।
ससहरबिंब हरेवा वल्ली, किस हुं चोर किसि तुं भल्ली ? ॥ ५ ॥ हुं जोगी जगि अच्छउं निरंजण, में नवि हरिउं छे तुम मन्न । सुण सुंदरि कुण झगडो आपण, पुव्वभवंतर लागी खणखण ॥ ६ ॥
पूर्व भवान्तरमिति योगिनोदिते जातजातिस्मृतिर्भारती निखिलं पूर्वचरित्रं जगौ, राजापि मुदितो योगिनं जगौ, हे योगिन् मुञ्चेमं योगिवेषं, इमां श्रीमतीयुतां मम पुत्रीं च परिणयेत्युक्ते स योगी तस्यां सञ्जाततीव्ररागो योगिवेषं विमुच्य तामुपयेमे।
तं चरिअं दट्टणं, राया दुण्हंपि देइ आवासं ।
वसिऊण वीस वासं, पुणोवि दुण्हपि वेरग्गं ॥ ७ ॥ इति जीवतां कल्याणागम इत्यर्थे भानुमन्त्रिकथा ॥ १०० ॥
॥ १०१ ॥ स्त्रीशक्तिविषये नापित-मालिकस्त्रीकथा ॥ स्त्रीणां शक्तिरतुला, यतः
यल्लब्धनिस्तुलफलैर्न बलैनरेन्द्रा, यद्विद्यया विदितविष्टपया न विज्ञाः । १. AH अनायण कुरंगीवंसह । २. अछइ AH ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.